________________
द्वितीयाविभक्तिविचारः ।
क्रियाविशेषणस्तोकादौ कर्मलकारः प्रसज्येत अत एव क्रियाविशेषणस्य फलान्वये कर्मत्वमिति तत्र द्वितीयाव्यापारान्वये कर्तृत्वमिति तत्र प्रथमा अथ वा ज्योतिष्टोमेन यजेतेत्यत्रेव करणानुवादिका तृतौया दूव एवमग्निहोत्रं जुहोतीत्यत्रेव स्तोकं पचतीत्यत्रापि भावनाकर्मपाकविषगातीकादिपदात् कमनुवादिका द्वितौया । न च क्रियाविशेषणास्य कर्मत्वपक्षे तव कर्मलकारः स्यादिति वाच्यम् । अस्तीत्युत्पन्नस्यात्मधारामुच्यत इति निरुक्तस्मृत्यात्मधारणानुकूलव्यापारार्थकस्यास्तेरप्यात्मनि कर्मणा कर्मलकारप्रसक्त्या व्युत्पत्तिवैचिच्याभ्युपगमात् । तथा हि येन कर्मणा सकर्मको धातु: तचैव कर्मणि कर्मप्रत्ययस्य साधुत्वंआत्मन: कर्मणो धात्वर्थान्तर्भूतत्वात् धातुनाऽभिधानात् न तेन कर्मणाऽस्तेः सकर्मकत्वमिति न तत्र कर्मलकारप्रमङ्गः तथा फलात्मकस्तोकस्य धातुनाऽभिधानान्न तेन कर्मणा सकर्मकत्वमिति नाव कर्मलकारप्रसक्तिः द्वितीया तु न तेन कर्मणा सकर्मकत्वमपेक्षते यतस्तारं शब्दायति दीर्घमस्तोत्यादौ धात्वर्थान्तिभूतकर्मणः शब्दात्मादे विशेषणे कर्मानुवादिका दृश्यते इत्थमेव क्रियाविशेषणपदोत्तर द्वितीयायाः कर्मानुवादकत्वपचोऽभ्युपेयते एवं फलान्वयिक्रियाविशेषणानांकर्मानुबादिका द्वितीया फलव्यापारयोः संसर्गी भूतकमत्वस्य प्रातिका यथा धात्वर्थान्तर्भूतकर्मफलयोः संसगीभूतकर्मत्वस्य तादृशकर्मविशेषणानां कर्मानुवादिकेति शाब्दिकमतमपि परास्तम् । स्तोकं स्यन्दते इत्यादी
१८२
Aho ! Shrutgyanam