________________
१७८ द्वितीयाविभक्तिविचारः । यबोधः धिक्शाक्यानित्यत्र निन्दिताचारो जुगुप्सा वा धिक्शब्दार्थ: जुगुप्सा तु देषविशेष: हितौयाया आधेयत्वं निन्दिताचारान्वयिजुगुप्सान्वयिविषयित्वं बाऽर्थस्तथा च शाक्यरतिनिन्दिताचार इति शाक्यविषयिणी जुगुप्सेति वा शाब्दबोध: "धिगस्तु तृष्णातरलं भवन्मन" इत्यत्र मन इति हितीयान्तं धिगित्यस्तिक्रियायां कर्त्ततयाऽन्वेति अथ वा धिगित्यस्ति क्रियायामेवान्वेति तथा च जुगुप्सितसत्तावन्मन इत्यन्वयबोध: । धिङमूखैत्यत्र जुगुप्सायां मूर्खसम्बोध्यत्वस्यान्वयः व्यत्यत्तिवैचिच्येा वि. षयितासंसर्गेणा मूर्ख स्यापि जुगुप्सायामन्वयः तेनान्यविषयकजुगुप्सायां मूर्खसम्बोध्यत्वान्वयविवक्षायां न तथाप्रयोगः । पाक्षिप्तभवसिपदार्थ सम्बोध्यत्वस्यान्वयो धिगितिक्रियायां भवने वेतीति कश्चित् । यदि च स्वविषयकद्वेषो न भवतीति धिमामित्यादौ नैषा गतिरिति विभाव्यते तदा गुणाभावदोषान्यतरस्वरूपोपकर्षों धिक्शब्दार्थ: हितीयायाः संबन्धोी: मां धिगित्यत्रापकर्षों मत्संबन्धीत्यन्बयबोधः । गुणा: पाण्डित्यकारुण्यादिर्दोष: क्रोधलोभादिः । एवं धिङमूर्खेत्या शास्त्रानभित्तस्य मूर्खपदार्थस्य मम्वोध्यत्वं वस्तुविवेकराहित्यस्वरूपापकर्षेऽन्वेति दर्शितापकर्षे सूखस्यानन्वयेऽपि न क्षतिरस्य मूर्खसाधारणत्वात् यत्व तु सम्वोध्यसाधारणोनापकर्षस्तत्र हितौयान्तपदापेक्षावश्यको यथा "कृष्ण त्वत्सवका धन्या धिगन्यान् प्राकृतान् जनानि"त्यादौ एतेन धिगर्थे प्रातिपदिकार्थस्य साचादन्वयोपगमे धिक्चेत्रश्चैवेगा वेत्यादिकः प्रयोग: स्यादिति समाहितं सा
Aho! Shrutgyanam