________________
विभक्त्यर्थनिर्णये ।
१७१
च प्रयोज्यतया दर्शितव्यापारेऽन्वेति शेषं तु पूर्ववत् अव विश्वामित्र समवेत मुत्कर्षप्रकारतानिरूपित विश्वामित्रविशेष्यतामुत्कर्षप्रकारक ज्ञानं भवत्वितीच्छाया उद्देश्यतावच्छेदकइयं समवेतत्वं दर्शितविशेष्यत्वं च तदवच्छदकता विश्वामित्रे स्पष्टा सा चैका दयौ वेत्यन्यदेतत् विश्वामित्रस्य व विशेष्यतया निरूपितोत्कर्ष प्रकारता कंज्ञानं भवत्वितीच्छा तत्रापि विशेष्यतानिरूपितप्रकारताकत्वावगाहने प्रकारतानिरूपितविशेष्यताकत्वावगाहन नियमाद्दिशेष्यत्वस्योद्देश्यतावच्छेदकत्वमिति न विश्वामित्रस्योद्देश्यतावच्छेदकतावच्छेदत्वहानिरिति । भ वतु वा प्रकारित्वस्योद्देश्यतावच्छेदकता तथापि तन्निरूपकावच्छेदकताघटित परम्पराविशेष्यत्वविशेषणतया आसमानाभिवाद्यनिष्ठाऽपि सम्बन्धस्तथा चान्यतरसम्बन्वावच्छिन्नमाधेयत्वमभिवाद्यवाचिपदोत्तरद्वितीयाया
अर्थ: तेन गालवसमवेतस्य विश्वामित्रसमवेतस्य विश्वामित्रोत्कर्षज्ञानस्य विश्वामित्रसमवेतस्य शिवोत्कर्षज्ञानस्य विश्वामित्रविशेष्यक गुणप्रकारकशिवोत्कर्ष प्रकारकसमूहालम्बनज्ञानस्य बेच्छायां विश्वामित्रमभिवादयत इति न प्रयोगः द्वितीयार्थस्य निरुक्ताधेयत्वस्यान्वेतुमयोग्यत्वात् एवमेवाभिवादिपर्याया नमस्करीत्यादयो बोध्याः । एवं मर्यं दर्शयते माणवकेन माणवकं वाऽऽचार्यइत्यादी माणवकपदोत्तरतृतौया द्वितीयया दर्शनान्वयिसभवेत्वर्थ इत्युक्तप्रायम् । "हृक्रोरन्यतरस्यामि त्वनुशा'सनेन कर्मत्वविकल्पज्ञापकेन कर्मकार्यद्वितीयाविकल्पाबोध्यते अत एव गत्यादिमृदस्य गत्यादिकर्ता कर्मैवेति
Aho ! Shrutgyanam