________________
द्वितीयाविभाक्तविचारः। तोत्यादौ सन इच्छामाबमर्थ: तत्र धात्वर्यस्य कत्यादरहेश्यित्वसमानकतत्वाभ्यां संबन्धाभ्यामन्वयः धात्वर्थकत्यादौ ताफले साध्यत्वविषयत्वे वा पाककर्मत्वस्य विषयित्वस्याधेियत्वस्य वा अन्वयः समानकर्तृकत्वनिवेशादन्यदीयकृतीच्छायां चिकोतीति न प्रयोगः उद्देश्यत्वनिवेशात्कृतिज्ञानेच्छायां न तथा प्रयोग इति वदन्ति । युज्यते चैतत् तथा हि सन्नर्थच्छायां पाकादिविषयत्वस्य नान्वयः धात्वर्थस्यैवोद्देश्यितयाऽन्वयात् न तु विषयत्वसामान्यस्य हितीयार्थतयाऽन्वयस्तथा सति पाकत्वं चिकीर्षतौति प्रयोगप्रसङ्गाद् उद्देश्यता तु प्रातिपदिकार्थे सन्नर्थेच्छाया न व्यत्यत्तिसिडा तण्डलं पिपक्षतोत्यादौ तण्डलस्य सिद्धतयाऽसम्भवात् न च पाकीयस्तण्डुलो भवत्वितीच्छायामपि तण्डुलं पिपक्षतीति प्रयोगात् प्रातिपदिकार्थस्य विषयतया तत्त्रान्वय इति वाच्यं तथा सति पाकीयं ज्ञानं भवत्वितौच्छायां ज्ञानं पिपक्षतीति प्रयोगोपपतेः विषयतामात्रेणान्वयोयगमेतिप्रसङ्गस्य दर्शितत्वाच्च न चौदनं बुभुक्षत इत्यत्र भोजनविशेष्यतयौदनस्यानुभवादिति मणिविरोध इति वाच्यम् । भोजनविशेष्यतयेत्यत्व बहुब्रीहिणा विशेषगावानुभवस्य बोधितत्वात् । ननु कथ तर्हि पाक चिकोर्षतीत्यत्र प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते न तु कतेरिति मणः सङ्ग तरिति चेत् प्रवृत्तिहेतुभूतायाचिकौर्षायाः कृतिसाध्यत्वप्रकारकतया पाकस्योद्देश्यत्वसम्भवात्तथैव तन्निर्वचनमुक्तं सामान्यतश्चिकीर्षा शब्दार्थ: धातुप्रत्ययार्थयोरन्वयेन कृतीच्छव । न च तत्र विषयितामायण
Aho! Shrutgyanam