________________
१५८
द्वितीयाविभक्तिविचारः ।
न्तमरातौनित्यादावप्यरात्यादौ दर्शितकर्तृत्वस्यानपायात् अरातिपदात्तृतीयाप्रसङ्गः न च गत्यादिकर्ता : कमत्त्वात्कथं तृतीयाप्रसङ्ग इति वाच्यम् । गत्यादिसूत्रस्थ नियमार्थत्वात्कर्मसंज्ञाविधायकत्वाभावात् णिजन्तार्थकर्मत्वस्याणिजन्तार्थकर्तृत्वस्य चोभयस्यारात्यादौ सत्वात् द्वितीयतृतीययोरेकशेषस्य कर्तुमशक्यत्वादुभयविधप्रयोगस्य साधुत्वप्रसङ्गादिति चेन्मैवं गत्यादिमूत्रस्य द्विविधनियमार्थकत्वात् । नियमस्तु गत्यादीनामेव कर्ता कर्मेति गत्यादीनां कर्ता कर्मैवेति । कर्मैवेत्येवकारेण कर्मकार्यातिरिक्तं ततौयादिकं व्यवच्छिद्यते । एव‘माकडारादेका संज्ञा" या परा ऽनवकाशा चेत्यबापि परकार्यातिरिक्तस्थानवकाश कार्यातिरिक्तस्य च कार्यस्य व्यवच्छेदः प्रतीयते इति न काप्यनुपपत्तिरिति । गमयति दिगन्तमराती नित्यादावरातिपदोत्तरद्वितीयान्या. कर्तृत्वमर्थः गत्यादिमचे कर्तेति भावप्रधानो निर्देश: कर्तत्वं तु गमयत्यरातोनित्यादौ कृतिः । बोधयति धर्मं माणवकमित्यादौ माणवाकपदोत्तरद्दितीयायाः समवेतत्वलचणं तदर्थः भोजयति मिष्टमतिथीनित्यादावतिथिपदोत्तरद्वितीयायाः कृतिलक्षणं तदर्थः गत्यादिसूत्रे भोजनग्रहणां पानमप्युपलक्षयति तेन पाययन्त्यः शिवन् पय इत्यादिप्रयोगोऽप्युपपद्यते अचापि शिशुपदोत्तरद्वितीयायाः कृतिरेवार्थः । ब्रह्मेनं व्याहारयतौत्यादावेतत्पदोत्तरद्वितीयायाः कृतिलक्षणं तदर्थः । मासमासयत्यतिथौनित्यादावतिथिपदोत्तरद्वितीयायाः कतिलक्षणं तदर्थः द्वितौयार्थो नानाविधकर्तृत्वं णिच्प्र
Aho! Shrutgyanam