________________
विभक्त्यर्थनिर्णये। ति कुरवः सुप्यन्ते इत्यादी शाब्दबोधः स्वयमूद्य इति । गमयति दिगन्तमरातीनित्यादावरात्यादेः कर्मत्त्वोपपत्तये"गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णावि"त्यनुशानम् । गत्यर्था गमिव्रज्यादयः बुध्यर्थाः बुध्यतिजानात्यादयः । प्रत्यवमानं भोजनं तदर्था अशिभुज्यादयः शब्दकर्माणः शब्दाभिन्नकर्मकारकोपलक्षितक्रियावोचिनो वदत्यध्येत्यादयः अकर्मका देशकालभावगन्तव्याध्वभिन्नकर्मान्वयायोग्यार्था सिरम्यादयः अत्र “सनाद्यन्ताधातव" इत्यनेन णिजन्तस्य धातु णिप्रकृतिधात्वर्थस्य फलतया तद्वतोऽरात्यादेः कर्मत्वं स्पष्टमिति कतुरीप्सिततमानीप्सिताभ्यां कर्मसंज्ञासिद्धी गत्यादिसर्व नियमार्थं तेन गमयति दिगन्तमरातीनिज्यादावरास्यादीनामिव पाचयत्यन्नं यज्ञदत्तं देवदत्त इत्यादौ यत्तदत्तादीनां कर्मत्वं नेष्टमिति पाचयत्यादियोगे न कर्मसंज्ञा भवतीति नियमार्थमिदं सत्रम् । एवं पाचयत्यन्नं यत्तदत्तेन देवदत्त इत्येव प्रमाणं तदाहुः । 29 गुणक्रियायां स्वातन्त्र्यात्प्रेरणे कर्मतां गतः ।
नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥. इति गुणक्रियायां णिच्प्रकृतिधात्वयं प्रधाने स्वातन्यात्माक्षादाश्रयत्वात् स्वधर्मेण स्वधर्मस्वातन्त्र्यस्याभिधायकेन टतोययेति यावत् प्रेरणे गिजथें कर्मतां गतोऽपीति शेषः नियमात् गत्यादिकर्मण्येव कर्मसंज्ञाज्ञापनादिति प्राचीना: । नवौनास्तु गत्यादिसर्व विधायकमेवान्यथा परया कटं संजया कर्मसंज्ञाया वाधात् गत्यायणिजन्तकर्तर्णिजन्तेऽपि कर्मत्वाप्रसङ्गात् प्रयोज्ये
Aho! Shrutgyanam