________________
१४६ द्वितीयाविभक्तिविचारः । यज्ञानविषयत्वस्य तत्त्वे दण्डकातरून याचते इति प्रयोगानुपपत्तिः व्यापाराश्रयदण्डकातरुतानापसिद्धेरिति वाच्यं व्यापाराश्रयज्ञानेच्छास्वरूपजिजापयिषाविषयत्वस्येच्छाविशेषणत्वोपगमात् इच्छाया बाधितार्थविषयकत्वसम्भवेन तरज्ञानाप्रसिद्धावपि तरुजिज्ञापयिषावि. षयत्वस्य स्वसम्बन्धेच्छायां सम्भवान्नानुपपत्तिः घनं जलं याचन्ते सस्थानौत्यादावचेतनसस्यादिकर्तकयाचनप्रयोगे याचतेरिच्छास्थाने पुष्टिरर्थ: तत्व घनत्तिव्यापारस्य प्रयोज्यतया जलवृत्तिस्वसम्बन्धे स प्रयोज्यतया पुष्टौ स निरूपकतया तिङर्थे स्वरूपयोग्यत्वेऽन्वेतीत्येयमन्यवाप्यूमिति चेदस्तु व्यापारादिविकं याचतेस्तत्पर्यायस्य भिक्षत्या देवार्थ: अस्तु जिज्ञापयिषाविषयत्वमिच्छायां विशेषणम् अस्तु चेच्छास्थाने पुष्टयादिकं याच-) त्यादरयस्तावतापि न नः काघि हानिरिति । प्रतियो. ग्युत्पत्तिद्वितीय क्षणोत्यनसंयोगस्य प्रतिहन्दी विभागः कमव्यापारश्च चिनोतरर्थाः अवयवयोगजसंयोगस्य प्रतियोग्यत्पत्तिहितीयक्षणेऽप्युत्पत्तिसम्भवान्नानुपपत्तिः तसंपुष्यं चिनोति मालाकार इत्यत्र तत्तिता दृश विभागः पुष्पत्तिकर्मणि तन्मालाकारव्यापार प्रयोजकतया अन्वेति शाब्दबोधाकारस्तु स्वयमूहनौयः । यतू भिदा हेतुविघटनञ्चिनोतरर्थ: भिदा संयोगध्वंसः विघटनकर्मानुकूलो व्यापार: तर पुष्पञ्चिनोतीत्यत्र तरुवृत्तिसंयोगध्वंसः पुष्पवृत्तिकमणि तहापारे प्रयोजकतथा अन्वेतौति तच्चिन्त्यं तथा सति घटाज्जलमाददाने जनाथं घटं जलं चिनोतौति प्रयोगप्रसङ्गात्
Aho ! Shrutgyanam