________________
१४४ द्वितीयाविभक्तिविचारः । त्वेनान्वयानुपपत्तिरिति । भिक्षतिरपि द्विकर्मक: न च भिक्षतेर्यावति समानार्थकत्वादेव हिकर्मकत्वे सिद्धे दुहियाचिरुधिपच्छिभिक्षिचिञा मित्यत्र पृथगुपादानमनर्थकमिति वाच्यम् । पर्यायगहणार्थमेव पृथगुपादानात् तेन राजानं कनकं प्रार्थयते भिक्षरित्यादिप्रयोगोऽपि साधु'रिति । यत्त भिक्षतेख़नेच्छास्वरूपयाचत्यर्थार्थकत्वेऽपि याचतेरन्तरोपि दिकर्मकत्वज्ञापनार्थ पृथगुपादानं तथा हि याचमानःशिवं सुरानित्यादौ व्यापारजन्यत्वप्रकारिकेच्छा याचतेरर्थः इच्छायां प्रधानकर्मकल्याणावितहितीयार्थविषयिताया अन्वयः व्यापारे च सुराधेयत्वस्य सुरानिति द्वितीयान्तार्थस्यान्वयः तथा च सुरत्तियारारजन्यत्वप्रकारकल्याणवियिताकेच्छाश्रय इत्यन्वयबोध इति । तच्चिन्त्य भिक्षतेरप्य र्यान्तरे द्विकर्मकत्वात्तत्समानार्थत्वस्य याचतावक्षत्वात् पृथगुपादानसमर्थनानुपपत्तेः भिक्षिता शतमखी न सुकृतं यदित्यादावर्थान्तरे भिक्षतेईि कर्मकत्वदर्शनात् यत्कतकं दानप्रसिद्ध तत्र कृपणं कनकं याचते इत्यादिप्रयोगः दण्डकावनतरून् सौतां याचते रामभट्र इत्यादिप्रयोगेण तुल्ययोगक्षेमः अत्र व्यापार: प्राप्तिरिच्छा च याचतेरर्थः तेन तरूवत्तिव्यापारप्रयोज्यायाः सौतावृत्तिप्राप्तेकद्देश्यिनौ या इच्छा तदाश्रयो रामभद्र दूत्यन्वयबोधः एवं याचमान: शिवं सुरानित्यादावपि सुरष्टत्तिव्यापारप्रयोज्यायाः कल्याणत्तिप्राप्तेसद्देश्यिनी या इच्छा तदाश्रय इत्यन्वयबोधः । नन्वेवं सर्ववैव व्यापारप्राप्तीच्छानां त्रयाणां याचचतिपर्यायधावूनामर्थत्वमस्तु राजानं कनक
Aho! Shrutgyanam