________________
विभक्त्यर्थनिर्णये ।
१४३ यत्तु जिज्ञासाबोधकशब्द, पृच्छतेरर्थ: जिज्ञासाविर्षायतया बोधे बोधोऽनुकूलतया शब्दो न्वेति गुरु धर्म टच्छति शिष्य इत्यादौ गुरुसमवेतत्वं द्वितीयान्तार्थो बोधे धर्मविषयित्वं हितौयान्तार्थो जिज्ञासायामन्तीति तचिन्त्यं बोधस्य जिज्ञासाविशेष्यतया अन्वयोपगमे प्रधानफलत्वापत्त्या तहतो गुरोः प्रधानकर्मत्वापत्तेस्तथा सति गुरुर्धमें पृच्छ्यत इत्यादिप्रयोगानुपपत्तेर्वक्ष्यमाणत्वात् न च शब्दत्वेन शब्दः पृच्छत्यर्थो न निविशते तथा सत्यभिनयादिना जिज्ञासा ज्ञापयति जो ऽयं पृच्छतीति प्रयोगानुपपत्तेः शाब्दिकास्तु उत्तरमनुशास्यत्वमनयोगश्च पृच्छतेरर्थः विशेषबोधकवचनमुत्तर जिज्ञासितत्वेन प्रतिपत्तरनुशास्यता किंशब्दघटितवाक्यादिभरनुयोगः जानपद पन्यानं पृच्छति पथिक इत्यत्न परम्परया जानपदाश्रितमुत्तरं पथिविषयिण्यां जिज्ञासितत्वप्रतिपत्ती मा च कः पन्था इति वाक्यादिस्वरूप पथिकानुयोगे जनकतयाऽन्वेतीत्याहुः । अन्ये तु उत्तरमनयोगश्च पृच्छतेरर्थः उत्तरं कृतिहाराधिकरणेन ज्ञानहारा विषयेण चोभयविधेन कर्मणाऽन्वितमिति वदन्ति । तबोमयमते जानपदं पन्थानं पृच्छति पथिक: जानपदः पथिकाय न किंचिदुत्तरयतीत्यादौ गतिश्चिन्त्या । रक्ताशोक कृशोदरी क नु गता त्यक्त्त्वाऽनुरक्तं जनमित्याद्यनयोगदर्शनाद्रताशोकं कशोदरीगतदेशं पृच्छति कामुक इत्यादौ रक्ताशोकव्यापारस्य प्रयोज्यत्वस्वरूपव्यधिकरणसंसर्गस्य कृशोदरोगतदेशीयविशेषज्ञाने इच्छयाऽ वगाहनसम्भवात् पृच्छतेर्दशितव्यापारादिवितार्थक
Aho! Shrutgyanam