________________
विभक्त्यर्थनिर्णये ।
११९
रिति नैतद्योगे द्वितीयाप्रसङ्ग इति शाब्दिकैरुक्तम् । तदपि न सुन्दरम् । तथा हि उद्घोषकादिस्तत्वेन स्मरणजनकत्वेन वा स्मृधातुना वाच्यः । नाद्यः । प्रकृते स्मरणावगमस्य सर्वजनसिद्धस्यापलापप्रसंगात् । न द्वितीयः । स्मरणजनक संस्कारादेः शिष्यादिगतत्वेनकर्मस्थभावकत्वाभावप्रसङ्गात् तस्मादधिगमादिविषयतयोर्विशेष्यविशेषणभावव्यत्यासेन धातुना प्रतिपाद्यत्वे, धिगच्छति शास्त्रार्थ इत्यादी द्वितीयाप्रस ङ्गो दुर्वार इति चेत् । अत्र गुरुचरणाः । अधिगच्छति शास्त्रार्थ इत्यादावधिगमविषयताया विशिष्टाया धातोर्लक्षणास्वरूपा वृत्तिः न तु विशेष्यविशे
भावव्यत्यासमात्रेण क्लृप्ताभ्यां खण्डशक्तिभ्यां निवहः खण्डशक्तिजनितपदार्थोपस्थितेः फलविशेषणकव्यापारविशेष्यकशाब्दबोधस्य प्रयोजिकायामधिगमिधातुत्वावच्छेदेन तादृशशाब्दबोधाभावप्रयोजको भूताभा वप्रतियोगित्वस्वरूपाकाङ्क्षा बुद्धावेव सहकारित्वाम्युपगमात् व्यापारविशेषण क फ ल विशेष्य कशाब्दीपयोगिव्युव्यत्यन्तरस्य तत्र खण्ड शक्तिजनित पदार्थोपस्थितेः सहकारित्वस्य च कल्पनमपेक्ष्य विशिष्टे वृत्तिरेव कल्पयितुमुचिता । तथा चाधिगमादिविषयतायां विशिष्टाय धावर्थे विशेषणीभूताधिगनादौ पदार्थैकदेशतया न हिatarsafer इति कर्मस्थभावकानां प्रायेणाकर्मकत्वमन्यत्र भावदेशकालाध्वभ्य इति पदवाक्यरत्नाकरे प्राहुः । तदिदं शाब्दिकमतमेव परिष्करोति न्यायमते तु कर्माख्याते व्यापारविशेषणक फलविशेष्यकशाब्दबोध
Aho ! Shrutgyanam
-