________________
Raw विभत्त्यर्थनिर्णये । गां कालयेत्यत्र कालनकरणदण्डविशेषणकुटिलपदादिवोपपद्यते । नन्वेवं गोदोहेन प्रणयेत्यशुकामस्य दनेन्द्रियकामस्य सुजयादित्यादी प्रणयनहवनादेर्धात्वर्थस्य कथं भावनायामन्वयः न तावत्करणतया गोदोहदध्यादिना करणेनावरुद्धायां भावनायां करणान्तराकानाविरहात् । नापि कर्मतया पखिन्द्रियादिना भाव्येन कर्मतयाऽवरुद्धायां कर्मान्तराकाहाविरहात् करणलकमत्वान्यसंसर्गेण धात्वर्थस्य भावनायामन्वयायोगोदिति चेत् दर्शितस्थलेऽनन्वित एव धात्वर्थः किं तु प्रकरणवशादुपस्थितस्यार्थस्यानुवादको धातुः केवलस्य प्रत्ययस्यासाधुतथाऽऽख्यातप्रयोगप्रयोजनकतयोपयुज्यते न तु तदर्थो वाक्यार्थे निविशते अत एव दर्शितस्थले प्रणयतिरनर्थक इति तेषां प्रवादस्मङ्गच्छते । अथैवं सोमेन यजेतेत्यादौ धात्वर्थस्य भावनायामन्वयो दुर्घट: सोमेन करणेनावरुद्धायां करणतयाऽन्वयायोगात् प्रवर्तनाऽन्वयानुरोधात् खगेंण भाव्येन कर्मतयाऽवरुद्धायां कर्मतयाऽप्यन्वयायोगादिति चेन्न । धात्वर्थस्य यागस्य करणतयाऽन्वयात् सोमादिशब्दस्य मत्वर्थलक्षणाऽभ्युपगमेन सोमवदर्थकतया करणीभूतथागविशेषणवाचित्वात्ततस्तुतीयोपपत्तेः । न च किमर्थं सोमादिशब्दे लक्ष्णाऽनन्वित एव धात्वर्थयागोऽस्त्विति वाच्यम् । तथा सति यागस्य परंपरयाऽपि प्रवर्तनागोचरत्वविरहात्तत्र प्रत्त्यनुपपत्तेः । नन्वेवं बौहौनवहन्तौल्यादौ व्रौद्यादीनां सिद्धत्वाहावनाफलोत्पत्तावन्वयायोगात्कथं ब्रौद्यादौनां कर्मत्वमिति कथं वा बौद्यादिपदाद् द्वितीयेति चेत्संस्कार्यत्वमेव ब्री
१४
Aho! Shrutgyanam