________________
१०४
द्वितीयाविभक्तिविचारः ।
संसर्गेण भावनाफलोत्पत्तावन्मयः यच प्रातिपदिकार्थेनान्वितस्य कर्मतासंसर्गेण तस्यैव वा भावनायामन्वयस्तव धात्वर्थस्य करणतयाऽन्वयः अत एव तादृशस्थले पाकेनौदनं भावयतौति विवरणे पाकपदात्करणत्वानुवादिका तृतीया एवं यत्र नित्यस्थले फलं न भावत्वा
योग्यं तव नित्यतया प्राप्तकर्तवाताको धात्वर्थ एव भावप्रतया भावनाकर्म । तत्र धात्वर्थविशेषणवाचिपदाद्दितीया भवति यथाऽग्निहोत्रं जुहोतीत्यादौ कर्मनामधेयाग्निहोत्रपदात् द्वितीया नीलं घटमानयतीत्यत्वानयनकर्मषटविशेषणनीलपदादिवोपपद्यते यत्र तु तिङर्थ भावनाया स्वर्गादिभाव्यं विना निष्फलतया तिर्थ - प्रवर्तनाया नान्वयः काम्यस्थले धात्वर्यस्य कष्टतया भावात्वायोगात् तत्र स्वर्गादिभावानान्वितायां भावनायां प्रवर्तनाऽन्वयः यथा स्वर्गकामो यजेत विश्वजिता यजेतेत्यादौ स्वर्गकामशब्दोपात्तेनाचिप्तेन वा स्वर्गेण माबान सकर्मिकायां भावनायां तत्र धात्वर्थस्य न कर्म - तयाऽन्वयः एककर्माविकडे कर्मान्तरस्यानाकाङ्क्षितत्वात् किं तु करणतया अत एव यजेतेत्यस्य यागेन स्वर्गं भावयेदिति विवरणम् एवं सति यागकरणिकायाः स्वर्गोत्पतेरनुकूलो वापारः प्रवर्तनागोचर इति वाक्यार्थबोध: तत्र प्रवर्तना शब्दधर्मः स च समवेतोऽतिरिक्तपदार्थ: प्रवृत्तितात्पर्य त्वं वेत्यन्यदेतत् । अत एव करणतयाऽन्वि तस्य यागस्य विशेषणवाचिपदात्त तौया यथा ज्योति - ष्टोमेन यजेत वाजपेयेन यजेतेत्यादी कर्मनामधेयात् ज्योतिष्टोमपदाद्दाजपेयपदाच्च तृतौया कुटिलेन दण्डेन
८
Aho! Shrutgyanam