________________
मिश्रितप्रकरणम् ४.
( ४९ )
एवं प्रशांतोऽपि दशप्रकारो निरूपणीयः शकुनो नरेण ॥ फलानि जातैः शकुनैः प्रदीप्तैः स्युर्यानि तानि प्रतिपादयामः ॥ ॥ ३० ॥ तिथ्या समीरेण तथा सवित्रा नक्षत्रचेष्टा गति भिव दीप्ताः ॥ धनस्य सैन्यस्य बलांगयोश्च कर्मेष्टयोश्व क्रमतो भयाय ॥ ३१ ॥ जाते प्रदीप्ते शकुने नराणां स्याद्भस्मितायां दिशि वित्तहानिः ॥ आलिंगितायां दिशि जीवनाशः संतापशोकौ दिशि धूमितायाम् ॥ ३२ ॥
॥ टीका ॥
एवमिति ॥ एवममुना प्रकारेण नरेण प्रशांतोऽपि शकुनो दशप्रकारो निरूपणीयः यथा प्रातिकूल्यादशप्रकारो दीप्तः शकुनः तथानुकूल्या दशप्रकारः शांतः शकुनः इति तात्पर्यार्थः प्रदीप्तैः शकुनैः जातैर्यानि फलानि स्युः तानि वयं प्रतिपादयामः ॥ ३०॥ तिथ्येति ॥ तिथिप्रभृतिषट्कारेण दीप्तः धनप्रभृतिषण्णां क्रमतो भयाय स्युः तत्र बलमात्मशक्तिः अंगं कोशप्रभृति कर्म कृत्यमिष्टं समीहितं वस्तु ॥ ३१ ॥ जात इति ॥ नराणां भस्मितायां दग्धायां दिशि प्रदीप्ते शकुने जाते वित्तहानिभवति आलिंगितायां प्रदीप्तायां दिशि शकुने जाते जीवनाशः स्यात् । धूमितायां
॥ भाषा ॥
एवमिति । जैसे प्रतिकूलपनेते ये दश प्रकारको प्रदीप्त कहे हैं या प्रकार करके मनुष्यन दशप्रकारको प्रशांत शकुनभी अनुकूलभावकर वर्णन कियो है और प्रदीप्तशकुनन करके जे फल हो है तिने हम कहें हैं ॥ ३० ॥ तिथ्येति । तिथि और पवन और सूर्य और नक्षत्र और चेष्टा और गति इनकरके छै: प्रकारको प्रदीप्तशकुन सो धनकूं और सेनाकूं और अपनी सामर्थ्य शक्तिकूं और सात जे अंगराजानके मंत्री राज्यकोशादिक और कर्म और इष्ट कहिये वांछितवस्तु इन छयोनकूं भयके अर्थहोय है ॥ ३१ ॥ जात इति ॥ दग्धादिशामें प्रदीप्त शकुन होय तो मनुष्यनकूं वित्तकी हानि होय और प्रदीप्ता दिशामें प्रदीप्त शकुन होय तो जीव नाश होय और धूमितादिशा में प्रदीप्त शकुन होय तो संताप शोक होय ॥ ३२ ॥
Aho! Shrutgyanam