________________
(४२) वसंतराजशाकुने-चतुर्थो वर्गः। पीनोन्नतविकृष्टांसाः पृथुग्रीवाः सुवक्षसः ॥ स्वल्पगंभीरवि. रुताः पुमांसः स्थिरविक्रमाः॥ १७॥ तनुग्रीवाः कृशस्कधाः सूक्ष्मास्यपदविक्रमाः ॥ प्रसन्नमृदुभाषिण्यः स्त्रियोतोन्यत्रपुंसकम् ॥ १८॥
॥ टीका॥
सकाश्च स्त्रियश्च पुरुषाश्च नपुंसकत्रीपुरुषाः इतीतरेतरद्वंद्वः।विहंगाः पक्षिणः यथोत्तरं बलिनः स्युः समस्ताः समग्राः नपुंसकेभ्यः स्त्रीणां बलाधिक्यं ततः पुरुषाणामिति तात्पर्य तेषां पक्षिणां नपुंसकस्त्रीपुरुषभेदत्रयलक्षणाय ज्ञापनाय इमौ वक्ष्यमा णौ श्लोकौ शाकुनिकाः शकुनवेत्तारः पठन्ति ॥ १६ ॥ पीनोन्नतेति ॥ एवंविधाः पतत्रिणः पक्षिणः पुमांसः पुरुषाः परिकीर्तिता बुधैराित शेषः।कीदृशाःपीनोव्रतविकृष्टांसा इति पीनौ पुष्टौ उन्नतौ उच्चैस्तरौ विकृष्टौ अंसौ बाहुमूले येषां ते तथा । पुनः कीदृशाः।पृथुग्रीवा इति पृथवः विस्तीर्णा ग्रीवा कृकाटिका येषां ते तथा। पुनः कीदृशाः सुवक्षस इति सुष्ठु शोभनं वक्षः येषां ते तथा। पुनः कीदृशाः स्वल्पगंभी. रविरुता इति स्वल्पं स्तोकं गंभीरं भद्रं विरुतं शब्दो येषां ते तथा ॥ १७॥ तनुग्रीवा इति ॥ एवंविधलक्षणलक्षिताः स्त्रियः स्युः। कीदृश्यः तनुग्रीवा इति । तनुस्तुच्छा कृकाटिका कंधरा यासां ताः कृशस्कंधा इति कृशः दुर्बलः स्कंधो यस्याः सा तथा|सूक्ष्मास्यपदविक्रमा इति सूक्ष्ममुपचयरहितमास्यं मुखं यासां ता. स्तथा न विद्यते पदेषु विक्रमः पराक्रमो यासां ताः पश्चात्कर्मधारयः । प्रसन्नमूदु
॥ भाषा ॥
ये तीन प्रकारके पक्षी हैं नपुंसकनते स्त्री संज्ञक श्रेष्ठ हैं और स्त्रीसंज्ञकनसूं पुरुषसंज्ञक श्रेष्ठ हैं इनपक्षिनके ये नपुंसक स्त्री पुरुष तीनों भेदनके जितायबेके लिये आगे कहेंगे जो श्लोक तिने शकुन वेत्ता कहहैं ॥ १६ ॥ पीनोन्नत इति ॥ पुष्ट और ऊंचे और दृढ ऐसे जिनके कंधा होंय और पुष्ट जाके कंठ होय और सुंदर जिनको वक्ष्यस्थल होंय और बहुत अल्प और गंभीर मंदमंद जिनके शब्द होंय ऐसे पक्षीनकी पुरुषसज्ञा विवेकीने कहीहैं ॥ १७ ॥ तनुग्रीवा इति ॥ तुच्छकृश जिनकी ग्रीवा होय और कृश जिनके कंधा होंय और सूक्ष्म जिनके मुख होय और पावनमें पराक्रम जिनके नहोय वा होलहोले पाँवध और प्रसन्न और कोमलवाणी
Aho ! Shrutgyanam