________________
( २६ )
वसंतराजशाकुने - तृतीयो वर्गः ।
तस्मिन्विचित्रं विततं विदध्यात्पिष्टान्न केनाऽष्टदलं सरोजम् ॥ यद्वा विशिष्टैर्मसृणप्रपिष्टैर्वस्त्वंतरैश्चंदनकुंकुमाद्यैः ॥ १० ॥ पीतः सुरेशः कपिलो हुताशः कृष्णो यमः श्यामवपुश्च रक्षः ॥ शुकः प्रचेता हरितः समीरश्चित्रो धनेशो धवलो महेशः ॥ ११ ॥
॥ टीका ॥
॥ तस्मिन्निति ॥ तस्मिन्मंडले पिष्टान्नकेनाष्टदलमष्टपत्रं सरोजं कमलं विदध्याकुर्यात् कीदृशं विचित्रं विविधवर्णोपेतं पुनः कीदृशं विततं विस्तीर्ण यद्वा कुंकुमचंदनाद्यैरिति कुंकुमं केसरं 'काश्मीरं कुंकुमं वह्निशिखे 'ति कोशोक्तेः चंदनं मलयोद्भ बं ते आद्ये येषां तैस्तथा कीदृशैर्विशिष्टैः नवीनैः मसृणप्रपिष्टैरिति मसृणं म्लष्टं प्रपिधैर्मदितैर्वस्त्वंतरैः पदार्थांतरैः सरोजं कुर्यादित्यर्थः ॥ १० ॥ पीत इति ॥ पीतः सुरेशो मघवान् वर्तते इति अस्य सर्वत्र संबंधः हुताशः कपिलः पीतरक्त इत्यर्थः । यमः कृष्णश्च पुनरर्थे रक्षः श्यामवपुः श्यामं वपुर्यस्य स तथा प्रचेता वरुणः शुक्लः । समीरः पवनः हरितो नीलवर्णः । धनेशो धनदः चित्रोऽनेकवर्णः। महेशो रुद्रः धवलः श्वेतवर्णः श्वेतो गुणो विद्यते यस्मिन्निति । अर्शआदित्वादप्रत्यये विशेषणविशेष्यभावः ११
॥ भाषा ॥
यामें नहीं लाना ||९|| वा मंडलमें करनो सो कहैं हैं तस्मिन्निति ॥ ता मंडलमें चून करके चित्रवि चित्र वर्ण करके युक्त होय, और लंबो चौडो होय ऐसो अष्टदल कमल करै अथवा कुंकुम जो केसर और मलयागिरिको चंदन ये हैं आदिमें जिनके तिनकरके वा नवीन पिसे और कोई पदार्थ तिन करके कमलकरे ॥ १० ॥ पीत इति ॥ पीत वर्ण जाको ऐसो देवतानको स्वामी इंद्र वर्त्ते है और कपिल जो पीतरक्त है वर्ण जाको ऐसो अग्निवत्तै है; और कृष्ण है वर्ण जाको ऐसो यमराज, और श्यामहे वपु और शुक्क है वर्ण जिनको ऐसो वरुण, और अनेक हैं वर्ण जाके ऐसो
जाको ऐसो राक्षस और हरित जो नीलवर्ण है जाको ऐसो धनेश जो कुबेर, और श्वेत है वर्ण जिनको अ
पवन,
Aho! Shrutgyanam