________________
अर्चनविधिप्रकरणम् ३.
(२५) वृत्तं विदध्याचतुरस्रकं वा पृथ्वीतले मंडलकं विशुद्धे॥ पौराणिकश्लोकपरीक्षितायाः संगृह्य गोर्गोमयमंतरिक्षात् ॥ ८ ॥ अत्यंतजीर्णदेहाया वंध्यायाश्च विशेषतः ॥ रोगार्तनवसृताया न गोर्गोमयमाहरेत् ॥९॥
॥ टीका ॥
ति यं शकुन शाकुनिकः बुध्यते यत्र देशे योस्ति यत्र च अस्यानुरागः भक्तिः अ. थ वा यत्र अनुभवः पुनःपुनर्विलोकनात् याथार्थ्यप्रतीतिः ॥ ७ ॥ वृत्तमिति ॥ विशुद्ध पृथ्वीतले वृत्तं वर्तुलं चतुरस्रकं वाचतुर्भिः रंगैः समन्वितं वा मण्डलकं वि. दध्यात् कुर्यादित्यर्थः किं कृत्वा संगृह्य किं गोमयं छगणं कस्मात् अंतरिक्षाभूमिमप्राप्तमित्यर्थः । कस्याः गोःधेनोः कथंभूतायाः पौराणिकश्लोकपरीक्षिताया इति पुराणे भवो यः श्लोकः तेन परीक्षा प्राप्ताया इत्यर्थः ॥८॥ तदेव पौराणिकश्लोकं दर्शयन्नाह ॥ अत्यंतेति ॥ एतादृश्या: गोर्गोमयं न आहरेत् नानयदित्यर्थः । अत्यंतजीर्णदेहाया इति अत्यंतं जीर्णः शिथिलीभूतो देहः शरीरं यस्याः सा तथाच पुनरर्थे वंध्याया इति सदापत्योत्पत्तिरहितायाः विशेषत इति यस्याः दर्शनं निषिद्धं तस्याःगोमयमपि सर्वथा निषिद्धमिति ज्ञापयितुं विशेषपदोपादानं रोगार्तनवप्रसूता या इति रोगार्ता रोगव्याप्ता नवा चासौ प्रसूता चेति कर्मधारयः। पूर्वस्य पुंवद्भाव: अत्र नवत्वं प्रसूत्यपेक्षया मंतव्यं तेन वृद्धादौ नवा ॥ ९॥ मंडले किं कुर्यादित्याह
॥ भाषा ।
देशमें जो शकुन होय, जामें याकी भक्ति होय, जामें अनुभव होय, सोही शकुन शकुन ज्ञानमें चतुरभक्त होय ताकरके अपनी सामर्थ्य बमूजिब पूजनकरनो योग्य है फिर शकुनके वारंवार देखते यथार्थप्रतीति हायहै ॥ ७ ॥ वृत्तमिति ।। पुराणके श्लोकनकरके परीक्षा प्राप्तहुई ऐसी गौ ताको गोबर होय पृथ्वीमें गिरयो न होय हाथको हाथमें ही लेलियो होय ऐसो गोबर लेकरके फिर शुद्धपृथ्वीमें गोलमंडल अथवा चौखूटो मंडल करै ॥ ८ ॥ सोही पुराणको श्लोक ताय कहै है । अत्यंतेति ॥ अत्यंत जर्णिदेह जाको होय, फिर वंध्या होय, संतानरहित होय, और जाको दर्शन ही करबेको निषेध है, ताको गोबर सर्वथा निषेध है, और रोग करके आर्त होय, और नवीन व्याई होय, ऐसी गौको गोब
Aho! Shrutgyanam