________________
( २० )
वसंतराज शाकुने - द्वितीयो वर्गः ।
द्वात्रिंशता सप्तदशोथ वृत्तैः पल्लीरुताख्यो भविताख्यवर्गः ॥ श्वचेष्टितेष्टादशसंख्यवर्गे द्वाविंशतिर्वृत्तशतद्वयं च ॥ १० ॥ एकोनविंशश्च शिवारुताख्यो वृत्तैर्नवत्या भविता च वर्गः ॥ प्रभाववर्गः पुनरत्र विंशो भावी च वृत्तैर्दशभिश्चतुर्भिः ॥११॥ प्रकीर्तिता विंशतिरेवमस्मिन्वर्गा महाशाकुनसारभूताः ॥ सहस्रमेकं त्विह वृत्तसंख्या तथा सपादानि शतानि पंच ॥१२॥
॥ टीका ॥
॥ द्वात्रिंशतेति ॥ अथ सप्तदश: पल्लीरुताख्यो वर्ग: द्वात्रिंशता वृत्तैर्भविता अष्टादशसंख्यवर्गे श्वषिचेष्टिते वृत्तशतद्वयं च पुनः द्वाविंशतिर्वृत्तानि भावीनि १० ॥ ॥ एकोनविंशतिरिति ॥ एकोनविंशो वर्गः शिवारुताख्यो नवत्या वृत्तैर्भविता अत्र पुनः प्रभाववर्गः विंशः दशभिश्चतुर्भिर्वृत्तैरिति चतुर्दशभिर्वृत्तैरित्यर्थः । भावी भ विष्यतीत्यर्थः ॥ ११ ॥ प्रकीर्तिता इति ॥ अस्मिन् शास्त्रे महाशकुनसारभूता वर्गा विंशतिः प्रकीर्त्तिताः कथिता ग्रंथकर्त्रेति शेषः । तु पुनः इहास्मिन् शास्त्रे सर्वा ग्रंथवृत्तसंख्या. एकं सहस्रं तथा पंचशतानि सपादानीति पादश्चतुर्थाशः शतसांनिध्यात्तस्यैव चतुर्थांशो गृह्यते तत्सहितानि पंचविंशतिश्लोकसहितानि प्रकीर्तितानी
॥ भाषा ॥
की ऐसो सोलवों बर्ग है: तामें पंद्रह श्लोक होयँगे ॥ ९ ॥ द्वात्रिंशतेति ॥ पारुत है नाम जाको ऐसो सत्रमो वर्ग बत्तीस श्लोकन करके होयगो, और अठारमो वर्ग खाननकी चेष्टा जां. में ऐसो श्वचेष्टितनाम तामें दोयसे बाईस श्लोक होयँगे ॥ १० ॥ एकोनविंशतिरिति ॥ शिवारुत है नाम जाको ऐसो उन्नीसमों वर्ग नब्बे श्लोकन करके होयगो, फेर वीसमों प्रभाव वर्ग चौदह श्लोकन करके होयगो ॥ ११ ॥ प्रकीर्तिता इति ॥ या शास्त्र में महाशकुननके सार - भूत वीस बर्ग ग्रंथकर्ताने कहे हैं फेर या शास्त्रमें संपूर्ण ग्रंथके लोकनकी संख्या एकहजा
Aho! Shrutgyanam