________________
शास्त्रसंग्रहप्रकरणम् २. (१७) वर्गाभिधानान्यथ वर्गसंख्यां वर्गेषु वृत्तप्रमित क्रमेण ॥ व्यस्तां समस्तामपि सम्यगस्मिन्नाचक्ष्महे शाकुनशास्त्रमख्ये॥१॥ आयो वर्गः शाकुनस्य प्रतिष्ठासंज्ञो वृत्तत्रिंशता कीर्तितोऽस्मिन् ॥ शास्त्रस्यायं संग्रहार्थों द्वितीयो वृत्तानि स्युर्दश च त्रीणि तत्र ॥२॥ त्रिंशत्तथाभ्यर्चननामधेयो वृत्तानि भावीनि तृतीयवर्गे ॥ वर्गश्चतुर्थस्त्विह मिश्रकाख्यो भावी कमात्सप्ततिवृत्तसंख्यः॥३॥
॥ टीका ॥ .
आद्यवर्गकथनानंतरं द्वितीयवर्ग प्रतिपादयन्नाह ॥ वर्गाभिधानानीति ॥ अस्मिन् शाकुनशास्त्रे मुख्ये एतानि वयं आचक्ष्महे कानि वर्गाभिधानानि वर्गनामानि । अथ वर्गसंख्या कियंतो वर्गा इति वर्गेषु क्रमेण वृत्तप्रमिति वृत्तानां काव्यानां प्रमिति संख्यां व्यस्ता प्रतिवर्गप्रभा संख्यां समस्तां सकलग्रंथनिबंधनां संख्या गणनामाचक्ष्महे ॥ १॥ आद्य इति ॥ आयो वर्गः अयं प्रत्यक्षोपलभ्यमानः मया कीर्तितः कीदृशः शाकुनस्य प्रतिष्ठासंज्ञ इति । शाकुनस्य शकुनजनितज्ञानस्य प्रतिष्ठाः युक्तिभिः सत्यत्वेन व्यवस्थापनं सा एव संज्ञा नाम यस्य स तथा। केन. वृत्तत्रिंशतेति त्रिंशत्प्रमितकाव्यैदितीयो वर्गोऽयं भवति । कीदृशः संग्रह एवा. थः प्रयोजनं यस्य स तथा । कस्य शास्त्रस्य शाकुनग्रंथस्येत्यर्थः। तत्रेति।तस्मिन्वर्गे दश त्रीणिति त्रयोदशवृत्तानि स्युरित्यर्थः ॥ २ ॥ त्रिंशत्तथेति ॥ तथा अभ्यर्च
॥भाषा॥
प्रथम वर्ग कहेके अनंतर अब द्वितीयवर्ग कहेहे ॥ वर्गाभिधानानीति ॥ शकुनके शास्त्रनमें मुख्य ऐसो जो वसंतराज तामें हम वर्गनके नाम, और वर्गनकी संख्या, और वर्गनके विषे कमकरके वृत्त जे श्लोक तिनकी वर्ग वर्गमें हुई जो संख्या ताय समस्तग्रंथके श्लोक तिनकी संख्या ताय उत्तमप्रकारके कहेहैं. ॥ १ ॥ आयइति ॥ शकुन ते हुयो जो ज्ञान ताकं सत्यभावकरके प्रतिपादन कियो जामें ऐसो शाकुन प्रतिष्ठित जाको नाम प्रथमवर्ग तीसवृत्त 'जे श्लोक तिनकरके मैने कह्योहै, और शकुनशास्त्रको संग्रह सोही जामें प्रयोजन ऐसो ये द्वितीयवर्ग है या द्वितीयवर्गमें त्रयोदशवृत्त कहिये श्लोक हैं ॥ २ ॥ त्रिंशत्तथेति ॥ अभ्यर्चन जो शकुननको पूजन सोईहै नाम जाको ऐसो तृतीयवर्ग तामें तीसवृत्त होंयगे और
Aho! Shrutgyanam