________________
(१६) वसंतराजशाकुने-प्रथमो वर्गः।
तेन संविदिह शाकुनसंज्ञा सम्यगस्ति खलु सा च नराणाम् ॥ उद्यमेषु सकलेषु नितांतं सर्वकालमुपयोगमुपैति ॥३०॥वसंतराजशाकुने सदागमार्थशोभने ॥ समस्तसत्यकौतुके प्रतिष्ठितं हि शाकुनम् ॥ ३१ ॥ इति श्रीवसंतराजशाकुने प्रथमो वर्गः ॥१॥
॥ टीका ॥ युक्त्या व्यवस्थापितं वदंति कथयति कीदृक्फलाविसंवादीत । फलेन सहाविसंवादः अव्यभिचारो विद्यते यस्य तत्तथा अस्त्यर्थे इन् यत् यस्मात् त्रिनेत्रो भगवान्यदुत्तमं शाकुनं शकुनशास्त्रं तद्गणानां वा मुनीनां वा नराणां उपादिशदकथयत् ॥२९॥ तेनेति ॥ तेन हेतुना ईश्वरोपदिष्टत्वेनेत्यर्थः । इहास्मिञ्जगति शाकुनसंज्ञा संविज्ज्ञानं सम्यगस्ति खलु निश्चयेन च पुनः सा संवित् नरागां सकलेद्यमेषु नितांतभातशयेन उपयोगं कार्य उपैति गच्छति सदा सर्वकालं सर्वस्मिन्काले सर्वदेति यावत् ॥ ३०॥ वसंतराज इति हि निश्चितं शाकुनज्ञानं प्रतिष्ठितं युक्तिभिः सम्यक्तया ग्रंथकृता स्थापितं कस्मिन्वसंतराज इत्यभिधया प्रसिद्ध शाकुने शकुनग्रंथे इत्यर्थः कीदृशे सदागमार्थशोभने इति। सदागमा वेदास्तेषामस्तैिः शोभने पुनः कीदृशे समस्तति।समग्राणि सत्यान्येव कौतुकानि यस्मिन्स तथा॥३१॥इतिश्रीपाति साहश्रीअकब्बर जलालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुजयकरमोचनादिसुकृतका रिभिर्महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजविवृतौ प्रथमो वर्गः १॥
॥भाषा । कोई प्रकारकरके याकू अप्रमाण शास्त्रयुक्तिकरके कहैं हैं याते ही त्रिनेत्र जो शिवजी भगवान् मनुष्यके कल्याणके लिये गणनकू वा ऋषिनकू कहतेहुये. ॥ २९ ॥ तेनेति ॥ शिवजी करके उपदेश दियोगयो ताकारण करके या पृथ्वीमें शकुनज्ञान बहुत उत्तमहै, निश्वयही ये शकुन मनुष्यनकू संपूर्ण उद्यमनमें करनो योग्य है, शकुनते ही सब कार्य मनुष्यको प्राप्त होय है ॥ ३० ॥ वसंतराजेति ॥ वेदनके अर्थनकरके शोभायमान और सत्यहैं समस्त शकुनादिक जामें सो नामकरके प्रसिद्ध ग्रंथ जो वसंतराज तामैं निश्चयशाकुनज्ञान ग्रंथकाने स्थापन कियो है ॥ ३१ ॥
इति श्रीवसंतराजशाकुनभाषाटीकायां श्रीमजटाशंकरात्मजज्योतिर्विच्छ्रीधरविर
चितायां प्रथमो वर्गः ॥ १ ॥
Aho! Shrutgyanam