________________
(८) वसंतराजशाकुने-प्रथमो वर्गः। गतिस्वरालोकनभावचेष्टानिरूपणात्प्राणभृतांक्षणेन ॥ प्रयोजने भाविनि तत्त्वबोधो नैमित्तिकस्याहति योगिनो वा ।। ॥ ११॥ अवेक्षितेऽस्मिन्न खलूपदेष्टा न चात्र कार्य गणितेन किंचित् ॥ उत्पद्यतेऽमुष्य हि पाठमात्राज्ज्ञानं मनो' हारि फलानुसारि ॥ १२॥
यत्र तत्तथा ॥ १० ॥ गतीति ॥ मायाप्राणभृतां पूर्वोक्तानां द्विपदादिजीवानां गतिस्वरालोकनभावनानि तैर्युक्ता चेष्टेति मध्यमपदलोपी तत्पुरुषः। अन्यथासमाहारैकत्वेन एकत्वे द्विगुइंद्वाविति नपुंसकत्वं दुर्वारं बहुवचनांतत्वे तु निरूपणक्रिययानन्वयः । येन क्षणेन क्षणमात्रेण भाविनि प्रयोजने कृत्ये योगिन इव नैमित्तिकस्येति निमित्तभाविशुभाशुभयोनिदानं जानातीति नैमित्तिकस्तस्य तत्त्ववोधो यथार्थज्ञानमर्हति योग्यो भवति । यथा भाविकार्यस्य तत्त्वबोधो योगिनस्तथा नैमित्तिकस्येत्यर्थः । अत्र इवाथ वा ॥ ११ ॥ अवेक्षितस्मिन्निति ॥ अस्मिन्नवेक्षिते ग्रंथे सति खलु निश्चयेन तस्य कोपि उपदेष्टा गुरुर्न भवति अस्यैव शुभाशुभोपदेशकत्वेन गुरुत्वात्तथा गणितेन किंचित्कार्य नास्ति गणितं हि प्रश्ननिर्णयार्थ क्रियते । अनेनैव चेनिर्णयो भवति तर्हि किमर्थ तत्प्रयास इति भावः । हि यस्मात्कारणादमुष्य शास्त्रस्य पाठमात्रादिति केवलः पाठः पाठमात्रमत्र केवलार्थको मात्रशब्दः । तस्मादेव ज्ञानमुत्पद्यते । कीदृशं मनोहारीति मनश्चित्तं हरतीत्येवंशीलं मनोहारि।
॥ भाषा॥
माहेश्वरकृतग्रंथ ये अर्थ करके विषम हैं सूत्र करके विषम नहीं हैं ऐसे जे ये शास्त्र इनकरके जडताळू प्राप्तहोय रह्यो जो जन ताकू ये शास्त्र औषधरूपहै, और वांछित है, याते चमत्काररूपीरसको अधिकता जामें ऐसो ये वसंतराज प्रगटहोतो हुयो.॥ १० ॥ गतीति ॥ मायाकर प्राणके धारवेवार पूर्वकह आये जे द्विपदादिक तिनकी गति, स्वर,आलोकन, भावचेष्टा, इनके नि. रूपणतें क्षणमात्र करके होनहार जो कोई कार्य तामें योगी की नाई निमित्त जो शुभ अशुभ निदान कारण ताय जानवेकू योग्यहै. ॥ ११ ॥ अवेक्षितस्मिन्निति ॥ ये वसंराज ग्रंथ जाने दखलीनोहै निश्चय करके ता पुरुषकू कोईभी उपदेशको देवेवारो नहीं है, क्यों याकू ही शु
Aho! Shrutgyanam