________________
श्वचेष्टिते भोजनप्रकरणम् ।
( ४८७ )
ओष्टयुगं यदि दर्शितदंतो लेढि भवत्यशनं तदभीष्टम् ॥ लेढि यदा पुनराननमध्यं नौष्ठयुगं विनिहंत्यशनं तत् ॥ ॥ २१९॥ मूत्रयिता यदि शोभनदेशे क्षीरिणि शाखिनि पक्कफले वा ॥ श्वा पुरतः पुरुषस्य तदानीमिष्टतरे भवतोऽशनपाने ॥ २२० ॥ दक्षिणभागगतो यदि लीढे सृक्कियुगं भषणो ऽभिमुखं च ॥ पश्यति तल्लभतेयमभीष्टं भोज्यमरण्यगतोऽपि मनुष्यः ॥ २२१ ॥
इति वसंतराजशाकुने श्वचेष्टिते भोजनप्रकरणमेकादशम् ॥ ११॥
॥ टीका ॥
पात्रं लेठि तत्र अशनं विषयुक्तं भवति ।। २१८ || आष्टयुगमिति । यदि दर्शितदंतः श्वा ओष्ठयुगं लेढि तदाऽभीष्टमशनं भवति यदा पुनः आननमध्यं लेढि नौयुगं तदा तदशनं विनिहंति ॥ २१९ ॥ मूत्रयितेति ॥ यदि पुरुषस्य पुरतः श्वा शोभनदेशे तथा क्षीरिणि शाखिंनि पक्कफले वा। क्वचित पुष्पफले वेति पाठः। मूत्रयि ता स्यात्तदानीमशनपाने इष्टतरे भवतः ॥ २२० ॥ दक्षिणेति । यदि दक्षिणभागगतो भषणः सृक्कियुगं लीढे अभिमुखं च पश्यति तदाऽरण्यगतोऽप्ययं मनुष्यः अभीष्टं भोज्यं लभते प्राप्नोति ॥ २२१ ॥
इति वसंतराजशाकुने टीकायां श्वचेष्टिते भोजनप्रकरणमेकादशम् ॥ ११ ॥
॥ भाषा ॥
ओष्ठयुगमिति ॥ जो श्वान दांत दिखावे और दोनों होटनकूं चाटे तो वांछितभोजन होय. जो फिर मुखके भीतर दोनों होठनकूं नहीं चाटै तो वांछितभोजन नाश करे ॥ २१९ ॥ मूत्रयितेति ॥ जो श्वान सुंदर स्थानमें और दूध जामेंसूं निकसै वा शाखान पकेहुये कल वा पुष्यमें मूत्र करै तो भोजन जल दोनों योग्य शुभ जाननो ॥ २२० ॥ दक्षिणेति ॥ जेमने भागमें श्वान दोनों गलफाडेनकूं चाटतो जाय संमुख देखे तो वनमें प्राप्तहुयोभी मनुष्य वांछित भोजनके योग्य प्राप्त होय ॥ २२९ ॥
.. इति वसंतराजशाकुने भाषाटीकायां श्वचेष्टिते भोजनप्रकरणमेकादशम ११ ॥
Aho! Shrutgyanam