________________
श्वचेष्टिते यात्राप्रकरणम् ।
(४७१), वामा दिशं दक्षिणभूमिभागाद्गच्छन्प्रयाणे भषणः प्रशस्तः॥ वामप्रदेशात्स पुनः प्रवेशे प्रशस्यते दक्षिणभागगामी ॥ ॥ १६४ ॥ याने प्रवेशे च मता प्रशस्ता शुन्या गतिः श्वानविपर्ययेण ॥ न चेष्टितं प्रत्युभयोर्विशेषः शुनीशुनोरत्र हि कश्चिदस्ति ॥ १६५ ॥ विष्ठां शुभं वा वसनस्य खंडमादाय वक्रेण पुरः प्रधावन् ॥ कौलेयको जल्पति निश्चयेन प्रवासिनामुत्तमवस्तुलाभम् ॥ १६६ ॥ स्तोकं बजित्वा यदि वामभागं निवर्तते श्वा त्वरितं पुरश्चेत्॥ सौख्यं तदा यच्छति सुप्रभूतं दुःखैकहेतुर्गतिरस्य तारा ॥ १६७॥
॥ टीका ॥ भाव्यते ज्ञायते तदस्माभिः निश्चितार्थ शुनो निमित्तमुच्यते ॥ १६३ ॥ वामामिति ॥ प्रयाणे यात्रायां दक्षिणभूमिभागाद्वामां दिशं गच्छन्भषणः प्रशस्तो भवति । प्रवेशे पुनः वामप्रदेशात्स दक्षिणभागगामी प्रशस्यते ॥ १६४ ॥ याने इति । याने गमने तथा प्रवेशे च शुन्या गतिर्गमनं श्वानविपर्ययेण शुनो वैपरीत्येन प्रशस्ता मता। उभयोः शुनीशुनोः चेष्टितं प्रति इह न कश्चिद्विशेषः अस्ति ॥ १६५ ॥ विष्ठामिति ॥ विष्ठां गृथं शुभं वा वसनस्य वस्त्रस्य खंडं वक्रेण मुखेन आदाय गृहीत्वा पुरः अग्रे प्रधावंस्त्वरितगत्या गच्छन्कौलेयक: प्रवासिनां यियासूनामुत्तमवस्तुलाभ निश्चयेन जल्पति ॥ १६६ ॥ स्तोकमिति ॥ यदि वामभागं स्तोकं व्रजित्वा श्वा
॥भाषा॥
कहैहैं ॥ १६३ ॥ वामामिति ॥ यात्रा करती समयमें दक्षिण भागसू वामभागमें गमन करै श्वान तो शुभ जाननो. फिर प्रवेश समयमें वामभागसूं दक्षिणभागमें गमन करे तो शुभ जाननो ॥ १६४ ॥ याने इति ॥ गमनमें तथा प्रवेशमें शुनी जो कुतिया ताकी गति श्वानकी गतिसं विपरीत गतिहोय तो शुभ जाननी और श्वानकी गतिमें और शुनीकी गतिमें इतनो भेद है, और चेष्टामें भेद विशेषता कभी नहीं हैं ॥ १६५ ॥ विष्ठामिति ॥ विष्ठा वा शुभ वा सुंदर वस्त्रको टूक मुखमें ले करके अगाडीकू भाजे तो वो स्वान यात्राकुं गमनकरै ताकू उत्तम वस्तुको लाभ निश्चय करै ॥ १६६ ॥ स्तोकमिति ॥ जो श्वान थोडीसी दूर अगाडी चलकरके शीघ्रही पीछो सामनेकू वगद आवे तो वा गमन कर्ताकू बहुत सौख्य होय श्वानकीतारागति अर्थात् जेमनी गति दुःखकी देवेवारी जा
Aho! Shrutgyanam