________________
श्वचेष्टिते शुभाशुभप्रकरणम् । (४६३) भुजद्वयं जिघ्रति सारमेये पुंसो भवेत्तस्करवैरियोगः ॥ मांसास्थिभक्ष्याणि च भस्ममध्ये स्यानोपयत्यग्निभयं प्रभूतम् ॥ १३६ ॥ भषत्यधो भूमिरुहोऽतिवृष्टिः पुरस्य पीडा शुनि गोपुरे स्यात् ॥ मंचे पुनस्तच्छयितुर्भयातिरार्तिस्तथा तस्य गृहस्य मध्ये ॥ १३७ ॥ भवेद्गृहस्योपरि वातभीत्यै पश्चाद्भपन्भीतिकरः प्रयाणे ॥ यश्चापसव्यं जनसंनिवेशे भषन्वजत्याह स वैरिभीतिम् ॥ १३८॥
॥ टीका ॥ तथा वाममूरुं जिवति सति विषयोपभोगः स्यात् । अवाममूरुं जिघति सति मित्रैः समं वैरं' स्यात् ॥ १३५ ॥ भुजद्वयमिति ।। सारमेये मुजद्वयं जिघ्रति सति पुंसः तस्करवैरियोगः तस्करश्च वैरी च तयोर्योगः संबंधो भवेत् । तथा मांसास्थिभक्ष्याणि च मांसं पललमस्थि कर्परं भक्ष्यम् । एतेषां वंद्वः। भस्ममध्ये रक्षांतराले गोपयति सति प्रभूतं प्रचुरम् अमिभयं स्यात् ॥ ॥ १३६ ॥ भवतीति ॥ भूमिरुहः वृक्षस्य अधः भषति सति अतिवृष्टिः स्यातागोपुरे नगरप्रतोल्यां शुनि भवति सति पुरस्य पीडा स्यात् । मंचे भयात्तिः स्यात् । तथा तस्य गृहस्य मध्ये ऑत्तिः पीडा स्यात् ॥ १३७ ॥ मंचे भवेदिति ॥ गृहस्योपरि भषन्वातभीत्यै वायुभयाय स्यात् । प्रयाणे पश्चाद्भषन्भीतिकरः स्यात् । यः श्वा जनसन्निवेशे अपसव्यं दक्षिणंभषन्व्रजति स वैरिभीतिमाह कथयतीत्यर्थः ।।
॥ भाषा॥
होय तो मित्रकरके सहित वैर करावै ॥ १३५ ।। भुजव्यमिति ॥ श्वान दोनों भुजानक संगतो होय तो पुरुषकं चौर वैरी इनको संयोग होय. और मांस, हाड़, भक्ष्य इनें भस्म जो राख तामे छिपायदे तो बहुत अग्निको भय होय ॥ १३६ ॥ अषतीति ॥ वृक्षके नीचे श्वान बोले तो अतिवृष्टि होय. नगरके द्वारमें बोले तो नगर पुर इनमें पीडा होय जो पलंग खाट मंचा इनमें बोले तो वापै सोयबेवारेकू भय पीडा होया और वा घरमेंभी पीडा होय ॥ ॥ १३७ ॥ भवदिति ॥ जो घरके ऊपर श्वान बोले तो वायुको भय करै, चलतीसमय पीठपीछे बोले तो भय करें, जो श्वान घरनगरादिकमें प्रवेश करतीसमय दक्षिणभागमें बोलतो हुयो गमन करे तो वैरीको भय होय ॥ १३८ ।
Aho! Shrutgyanam