________________
श्वचेष्टिते शुभाशुभप्रकरणम् । (४५३) केदारमृत्स्नामणिकेष्टिकासु प्रासादकुड्यानचयादिकेषु॥स्थानेषु वस्तुष्वपि शोभनेषु भूम्यादिलाभाय करोति मूत्रम् ॥ ॥१०२॥ शय्यासनच्छबहुताशनेषु छिद्रेषु धूलीनिचयेषु यक्षः ॥ स्थानेषु मूत्रं विमृजत्यनंतः स्यादर्थलाभोऽभिमतो नराणाम् ॥ १०३ ॥ खंडिनीसुसलकांजिकधानीशूर्पकेषु कृतदक्षिणचेष्टे ॥ लभ्यते बहुधनं शुनि मूत्रं तेषु कुर्वति सुभोज्यमभीष्टम् ॥ १०४॥
॥टीका ॥ तपल्लवे सपुष्पे पुष्पसंयुक्त फलान्विते भूरुहि वृक्षे तथा पुष्पे तथा फले तथाक्षीरतरौ पंके कर्दमे संपूर्णकंभे घटे अंभसि पानीये गोमये छगणे वा ॥ १०१ ॥केदारे. ति ॥केदार वप्रे मृत्स्ना मृत्तिका तस्यां मणिके जलभाजनविशेषे गेहूँ इति प्रसिद्ध वा कोठी हंडा इष्टिका ईट इति प्रसिद्धा तस्यांप्रासादः देवभूभृतां गृहं कुड्यं भित्तिः अन्नचयादिकंसस्यसमूहप्रभृति एतेषु स्थानेषु एतेषामितरेतरद्वंद्वाएतव्यतिरिक्तशीभनेषु वस्तुष्वपि सारमेयःभूम्यादिलाभाय मूत्रं करोति कुरुते "अलंजरःस्यान्मणिके कर्कर्यालूगलंतिका" इत्यमरः॥१०२॥ ॥शय्येति ॥ यक्षः शय्यासनच्छत्रहुताशनेषु शय्या च आसनं च छत्रं च हुताशनश्चेति द्वंद्वः तेषु छिद्रेषु विलेषु धूलीनिचयेषु च एतेषु स्थानेषु यदा मूत्रं विमृजति कुरुते तदा नराणामनंत अपरिमितः आभिमतो वांछितः अर्थलाभः स्यात् ॥१०३॥ खंडिनीतिः ॥ खंडिनी ऊखलीति प्रसिद्धा मुसलमयोऽयं कांजिकधानी कांजिकभृतपात्रंशूर्पकं तितउ:एतेषामितरेतरद्वंद्वः एतेषु कृतदक्षिणचेष्टेशुनि सति बहुधनं लभते । तेषु मूत्रं कुर्वति सति अभीष्टं भोज्यं लभते
॥ भाषा॥
फल दूध जामेंसू निकसै ऐसो वृक्ष कीचभरो हुयो घट जल गोबर ॥ १०१ ॥ केदारेति ॥ खेत, मृत्तिका, जल पात्र, ईट, देवघर, राजघर, कोठडी, भीत, अन्न के समूहकू आदिले इन स्थाननमें अथवा इनसूं न्यारे सुंदर शोभायमान वस्तुनमें, श्वान मूत्र कर तो पृथ्वीकू आदिले पदार्थनको लाभ करै ॥ १०२ ॥ शय्येति ॥ जो श्वान शय्या, आसन, छत्र, अग्नि इनमें छिद्र बिलो धूलको समूह इन स्थाननमें मूत्र करै तो मनुष्यन• अनंत वांछित भर्थको लाभ करै ॥ १०३॥ खंडिनीति ॥ ऊखली, मुसल, कांजीको भरो हुयो पात्र सप इनमें दक्षिण अंगकी चेष्टा करता होय श्वान तो बहुतसो धन प्राप्त होय. और
Aho! Shrutgyanam