________________
श्वचेष्टिते युद्धप्रकरणम् । (४४५) मुंचतो घुरघुरावं यदा वांछतो न खलु खादितुं बलिम् ॥ मंडलौ कृतनिजास्पदाश्रयौ वैरमेव न भवेत्तदा रणम् ॥ ॥७४ ॥ एको विशंको बलिमाददाति पलायते दूरत एवं चान्यः॥ यक्षो यदा तत्प्रधनं विनैव राज्ञोर्भवेतां जयलाभ भंगौ ॥७५ ॥ न स्थानतश्चेचलतः कदाचिच्छानौ विसृष्टौ बलिभक्षणाय ॥ वैरे प्रपन्नेऽपि कुतोऽपि हेतोभूपालयोः स्यान रणो न सांधः ॥ ७६॥
॥ टीका ॥
भवति स राजा इंगितज्ञैः सत्रासः भयेन सहित इति ज्ञेयः ज्ञातव्यः । यन्नामधेयः श्वा पुनरस्तशंकः स्यात्तस्य राज्ञः चित्ते भयं नास्तीति ज्ञेयम्॥७३॥ मुंचत इति ॥ मंडलौ यदा घुरघुरारवं मुंचतः खादितुं बलिं न वांछतो निजकृतास्पदाश्रयौ स्वविनिर्मिताश्रमस्थायिनौ भवतःतदा वैरमेव परस्परं विरोध एव भवेत् रणं न भवेत् ७४ एक इति । एकः श्वा अविशंक: निर्भयः बलिं आददाति गृह्णाति अन्यः श्वा दू. रत एव च पलायते यदा एवं विधौ यक्षौ भवतः तदा प्रधनं संग्राम विनैव राज्ञोजयलाभभंगौभवेता जयलाभश्च भंगश्चेतिद्वंदः। एकस्य जयः स्यादन्यस्य मंगःस्यादित्यर्थः।"युद्धमायोधनंजन्यं प्रधनं प्रविदारणम्' इत्यमरः ॥७५॥ नेति॥ बलिभक्षणाय विसष्टावपि मुक्तावपि श्वानौ चेत्स्थानतःस्थानान्न चलतःन गच्छतः तदा वैरे प्रवृत्तेपि प्रपन्नेपि कुतोऽपि हेतोः तयोःभूपालयोः न रणो न संधिः स्याताम्।
॥ भाषा ॥
मचंत इति ॥ दोय श्वान बलिदान खायवेकू नहीं वांछा करें और आपुसमें घरघर शब्द करत अपने अपने स्थानमें जाय बैठे तो दोनों राजानके आपुसमें वैरविरोधही होय संग्राम नहीं होय ॥ ७४ ॥ एक इति ॥ दो श्वानमेंसू एक श्वान निर्भय बलिदान ग्रहण करे दूसरो श्वान दूरतेही देखकर भाग जाय तो संग्राम विनाई राजनको जयलाभ, भंग होय. एकको जय होय, दूसरेको भंग होय ॥ ७५ ॥ नेति ॥ जो बलिदानके भक्षणकेलिये दो श्वान छोडे वे श्वान स्थानते उठे चलें नहीं तो दोनों राजानके वैर प्रवृत्त होय रह्यो है तो भी उनके संग्रामभी नहीं होय. और संधिभी नहीं होय ॥ ७६ ॥
Aho! Shrutgyanam