________________
( ४३५ )
श्वचेष्टिते विवाहप्रकरणम् । संमार्जयन्वामकरेण जिह्वां ब्रवीति भोगप्रियतां वरस्य यक्षो लिहञ्जल्पति वामपादं वित्तेन वृत्तिं भ्रमणार्जितेन ॥ ॥ ३९ ॥ मूत्रं निजं लेढि दिशं च वामां प्रयाति तत्स्यादयितोऽनुरागी ॥ वामं लिहन्सृक्किवरस्य पूर्णे महानसे व्यापरणं ददाति ॥ ४० ॥ गलाक्षिकर्णाननभालमूर्ध्ना वामांत्रिणा स्पर्शनतः कुमारी ॥ राज्ञी भवेत्तस्य वरस्यं गेहे यथोत्तरं वृद्धिमती क्रमेण ॥ ४१ ॥
॥ टीका ॥
भाविनीं सपत्नीं ब्रूते ॥ ३८ ॥ संमार्जयन्निति ॥ यक्षः वामकरण जिह्वां संमार्जयन्विशुद्धिं कुर्वन्वरस्य भोगप्रियतां भोगः प्रियो वल्लभो यस्य तस्य भावस्तत्ता तां ब्रवीति कथयति । यक्षः वामपादं लिहन्नास्वादयन्वरस्य भ्रमणार्जितेन वित्तेन वृत्तिं आजीविकां जल्पति ॥ ३९ ॥ मूत्रमिति ॥ यदि श्वा निजं मूत्रं लेढि आस्वादयति दिशं च वामां यदि वा प्रयाति तदा दयितः अनुरागी स्यात् । वामं सृक्कि अधरस्याधः प्रदेशं लिहन्वरस्य पूर्णे महानसे व्यापरणं ददाति । अन्नपाचकः स्यादित्यर्थः ॥ ४० ॥ गलेति ॥ गलाक्षिकर्णाननभालमूर्ध्ना वामत्रिणा स्पर्शनतः कुमारी राज्ञी स्यात् । तत्र गलः कंठः अक्षि चक्षुः कर्णः श्रवणम् आननं मुखं भालं ललाटमेतेषामितरेतरद्वंद्वः । प्राणितूर्यसेनांगानामित्येकवद्भावः । तस्य वरस्य गृहे क्रमेण यथोत्तरं
॥ भाषा ॥
कन्याके दूसरी सौत होयगी ऐसो जाननो ॥ ३८ ॥ संमार्जयन्निति ॥ जो श्वान बांये हाथ करके जिह्वाकूं मार्जन करतो होय अर्थात् पोंछतो होय तो वा कन्याके वरकूं संभोग बलभ बहुत हाय ऐसो जाननो. जो श्वान बांये पाँवकूं चाटतो होय तो वा कन्याके वरकूं भ्रमण करके संचित हुयो धन ता करके आजीविका जाननो ॥ ३९ ॥ मूत्रमिति ॥ जो श्वान अपने मूत्रकूं आप स्वाद लेवै फिर बामदिशाको जाय तो भर्तार अनुरागी होय. जो श्वान बांई गलफाडकूं चाटतो होय तो वा कन्याको भर्त्तार रसोई की चाकरीसूं जीविका करे ॥ ४० ॥ गलेति ॥ जो श्वान कंठ, नेत्र, कर्ण, मुख इनकूं स्पर्श करै तो वो कन्या. राणी होय. जा दिनसं भर्त्तारके जाय वा दिनसूं वाके भर्त्तारके घरमें वृद्धि होती चली
Aho ! Shrutgyanam.