________________
श्वचेष्टिते राज्याधिकारप्रकरणम् । (४३१) महोदयं पंचविधेन पुंसां शान्तेन राज्यं वितरत्यवश्यम् ॥ . पंचप्रकारेण पुनस्तदेव दीप्तेन यक्षो हरति प्रसह्य ॥२६॥ दीप्ताभिधाभ्यां स्थितिचेष्टिताभ्यां प्रवासराज्यक्षितिमृत्यवः स्युः॥शांताभिधाभ्यां भवति त्वमूभ्यां राज्यं समद्धं चिरकालभोग्यम् ॥ २७ ॥ दिक्चेष्टितस्थानगतिस्वराख्याः पंचेह दीप्ताः खलु पंच शांताः॥अन्येष्वपीमे शकुनेषु भूना निमित्तविद्भिः परिभावनीयाः॥२८॥ इति वसंतराजशाकुने श्वचष्टिते राज्याधिकारप्रकरणम् ॥२॥
॥ टीका ॥ गुणो न दोषः गुणदोषप्रतिपादकचेष्टयोः साम्यादित्यथः । कौलेयकः पुनः याश्चेष्टाः अधिकाः करोति तदा तदुत्थं तज्जन्यं फलमधिकं प्रतिपादनीयमित्यर्थः ॥ ॥२५॥ महोदयमिति ॥ यक्षः पंचविधन शांतेन पुंसां महोदयं राज्यमवश्यं वितरति । पंचप्रकारेण दीप्तेन पुनर्यक्षः प्रसह्य बलात्कारेण तदेव महोदयं राज्य : हरति ॥ २६ ॥ दीप्तेति ॥ दीप्ताभिधाभ्यां स्थितिचेष्टिताभ्यामवस्थानं चेष्टितं शरीरव्यापारस्ताभ्यां प्रवासराज्यक्षितिमृत्यवः स्युः । प्रवासः परदेशगमनं राज्यक्षतिः राज्यस्य नाशः मृत्युर्मरणम् एतेषामितरेतरबंदः । शांताभिधाभ्याममूभ्यां स्थितिचेष्टिताभ्यां चिरकालभोग्यं समृद्धं राज्यं स्यात् ॥ २७ ॥ दिगिति ॥ दिक्चेष्टितस्थानगतिस्वराख्याः इह खलु निश्चयेन पंचदीप्ताः पंच शांताश्च भवंति । तथाऽन्येष्वपि पोतक्यादिशकुनेष्वपि निमित्तविद्भिः इमे पंच शांताः । पंच दीप्ताः भूना परिभावनीयाः विचिंतनीयाः॥२८॥
इति वसंतराजटीकायां श्वचेष्टिते राज्याधिकारप्रकरणं द्वितीयम् ॥२॥
॥ भाषा॥
श्वान जो अधिक चेष्टा करै तो वाको ही फल अधिक कहनो ॥ २५ ॥ पांच प्रकारके शांतशकुन करके पुरुषन• महान् उदय जामें ऐसो राज्य अवश्य देवे. फिर पांच प्रकारको दीप्तशकुन ता करके श्वान बलात्कार करके वोही महोदय राज्य ताकू हरण करे ॥ २६ ॥ दीप्तेति ॥ दीप्तस्थिति और दीप्तदेहकी चेष्टा इनकरके परदेशको गमन, राज्यको नाश और मृत्यु ये होय. और शांतस्थिति, शांतचेष्टा होय तो इनकरके चिरकाल ताई भोगावेके योग्य समृद्धवान् राज्य होय ॥ २७ ॥ दिगितिं ॥ दिशा, चेष्टा, स्थान, गति, स्वर,
Aho ! Shrutgyanam