________________
(४३०) वसंतराजशाकुने-अष्टादशो वर्गः। वक्षोऽथ कंडूयति दक्षिणेन स्वपाणिपादेन भवेत्तदानीम् ॥ तुरंगमातंगमहिष्यजादिगवादिसंपत्सहितं नृपत्वम् ॥२२॥ अवामपादप्रभवैः प्रयत्नाल्लिखेनखैः श्वा जठरं स्वकीयम् ॥ वक्त्येव भावी सखिबंधुभृत्यनिर्वाहशक्तो नृपतित्वयोगः२३॥ प्रदक्षिणं चेष्टितमीदृशंस्यादेवंविधं तत्र फलं प्रदिष्टम्।।पुंसोऽनुकूलं सकलं तदेव श्वा हंति दृष्टः कृतवामचेष्टः ॥२४॥ भवंत्यवामा यदि वामतश्च चेष्टाः समास्तान गुणो न दोषः। कौलेयको यास्त्वधिकाःकरोति फलं तदुत्थं प्रतिपादनीयम्२५॥
॥ टीका ॥ भोज्यवस्तूनि चिरं चिरकालं यावद्भवति ॥ २१ ॥ वक्ष इति ॥ यदा यक्षः वक्षो दक्षिणेन स्वपाणिपादेन कंडूयति तदानीं तुरंगमातंगमहिष्यजादिगवादिसंपत्सहितं नृपत्वं भवेत् । तत्र तुरंगाः अश्वाः मातंगा दंतावला: महिष्यः सैरभ्यः अजादयः छागादयः गौः धेनुः एतेषामितरेतरद्वंद्वः । ताः आदौ यासा एवंविधा याः संपदः समृद्धयस्ताभिः सहितं समेतमित्यर्थः॥ २२ ॥ आवामेति ॥ यः श्वा प्रयत्नादवामपादप्रभवः दक्षिणचरणोत्थैः नखैः स्वकीयं जठरं लिखेत्खनेत्। एष कुक्कुरः सखिबंधुवर्गनिर्वाहशक्तः नृपतित्वयोगः भाभी इति वक्ति ब्रूते॥२३॥प्रदक्षिणमिति॥प्रद. क्षिणं चेष्टितमीशं स्यात्तत्र एवंविधं फलं पुसः अनुकलं सकलं समस्तं प्रदिर्घ प्रोक्तं श्वा कृतवामचेष्टः दृष्टः तदेव पूर्वोक्तमेव सकलं पुंसः अनुकूलं फलं हंति ॥२४॥ भवंतीति ॥ अवामा दक्षिणा यदि वामतश्च चेष्टाः समाः सदृशाः भवंति तदा न
॥ भाषा॥
भोगवेकं योग्ययोग्य वस्तु चिरकाल ताई होय ॥ २१ ॥ वक्ष इति ॥ जो श्वान जेमने हाथ पाँवकरके अपनो वक्षस्थल खुजावतो होय तो हाथी, घोडा, गौ, भैंस, बकरी इत्यादिकनकी संपदानकर सहित राजा होय ॥ २२ ॥ अवामेति ।। जो श्वान जेमने पाँवके नखन करके अपने उदरक खुजायवेको सी नाई करतो होय तो होनहार मित्र बंधुवर्ग इनके निर्वाहकी शक्ति राजापनेके योग्य ये होय ॥ २३ ॥ प्रदक्षिणमिति ॥ श्वानकी न्ये जेमनें अंगकी चेष्टा हैं इनमें या प्रकार फल पुरुषकू अनुकूल सब कहे. और जो श्वान बांये अंगकी चेष्टा करतो दीखै तो पहले कहे जे सब अनुकूल फल तिने नाश करै ॥ २४ ॥ भवंतीति ॥ जो बाई जेमनी चेष्टा समान होंय तो गुण भी नहीं और दोष भी नहीं. फेर
Aho! Shruigyanam