________________
श्वचेष्टितेऽधिवासनप्रकरणम् ।
( ४२५ )
तं सारमेयं पुरुषोऽधिवास्य विश्वास्य धृत्वा रूपयेद्दिनांते ॥ शुक्लांबरस्तां रजनीं व्रती स्याद्यत्नेन कुर्यात्सकलं समन्त्रम् ॥ ॥ ८ ॥ अथ मंत्रः । ॐ नमो भगवते शुनकोत्तमाय महाशकुनगंभीरशब्दाय प्रजापतये ऋतुकालाभिगामिञ्छीघ्रमहि एहि बलिं गृहाणगृहाण मम चिंतितानि सत्यं ब्रूहिब्रूहि हुंफस्वाहा ॥ इति ॥ ततः प्रभाते नवगोमयेन त्रिहस्तमात्रं चतुरस्ररूपम् ॥ शुचौ मनोज्ञे विजने विदध्यादिलातले मंडलकं विशुद्धम् ॥ ९ ॥
॥ टीका ॥
सर्वागकृष्णः देहव्यापिकृष्णवर्णः पुनः कीदृक्परिपूर्णकायः सर्वावयवसंपूर्णः न न्यूनावयवः पुनः शांतः सौम्यप्रकृतिः पुनः नीरोगः आमयवर्जितः पुनस्तरुणः उद्गतयौवनः पुनः बलिष्ठः बलयुक्तः पुनः अवामभागोन्नतपुच्छचेष्टः दक्षिणभागे उन्नतीकृतपुच्छव्यापारः ॥ ७ ॥ तमिति ॥ पुरुषः तं सारमेयम् अधिवास्याधिवासनं कृत्वा विश्वास्य विश्वासं समुत्पाद्य करेण धृत्वा गृहीत्वा दिनांते: स्नापयेत्स्नानं कारयेत् । शुक्लांबरः श्वेतवासाः तां रजनीं व्रती व्रतयुक्तः स्यात् । यत्नेन सकलं सर्व समंत्र मन्त्रसहितं कुर्यात् ॥ ८ ॥ अथ मन्त्रः ॥ ॐ नमो भगवते शुनकोत्तमाय महाशकुन गंभीरशब्दाय प्रजापतये ऋतुकालाभिगामिन शीघ्रमेहि एहि बलि गृहाणगृहाण मम चिंतितं कार्यं सत्यं वाहब्रूहि हुं फट् स्वाहा ॥ कचिद्रहणे ग्रहणे इत्यपिपाठः ॥ तत इति ॥ : रजनीगमनांतरं प्रभाते नवगोमयेन द्विहस्तमात्रं चतुरस्ररूपं चतुःकोणं शुचौ मनोज्ञे विशुद्धे इलातले भूमौ विजने जनरहिते विशुद्धं पवित्रं मंडलकं विदध्यात्कुर्यादित्यर्थः । तदुक्तमन्यत्र । “अर्थ्यार्चनालेपनपुष्पधूपनैवेद्यदीपाक्षतदक्षिणाभिः ॥ नमोयुतैः सप्रणवैः प्रयत्नान्महा
॥ भाषा ॥
होय वाकूं शूद संज्ञक कहैं हैं ॥ ७ ॥ तमिति ॥ ता श्वानको अधिवासन करनो वामें विश्वास करनो, सायंकालकूं श्वानकूं हाथसूं स्नान करावनो, श्वेतवस्त्र धारण करावा, रात्रि व्रतयुक्त रहना, यत्नसूं सब या मंत्रसहित करनेो ॥ ८ ॥ अथ मन्त्रः ॥ ॐ नमो भगवते शुनकोत्तमाय महाशकुनगंभीरशब्दाय प्रजापतये ऋतुकालाभिगामिन् शीघ्रमेहि एहि बलि गृहाणगृहाण मम चिंतितं कार्ये सत्यं ब्रूहिब्रूहि हुंफट् स्वाहा ॥ या मंत्रसूं सब करनो ॥ तत इति ॥ वा रात्रिके व पीछे प्रातः काल पवित्र शुद्ध निर्जन पृथ्वी नवीन गोबरसूं तीन हाथ क
Aho! Shrutgyanam