________________
( ४२४ )
वसंतराजशाकुने - अष्टादशो वर्गः ।
श्वेता द्विजाः क्षत्रियकाश्च रक्ताः पीताश्च वैश्या असिताश्व शूद्राः ॥ विमिश्रवर्णाः शुनकास्तथेह भवंति नानाविधकारुसंज्ञाः ॥ ४ ॥ स्वजातिरूपेण विशेषतोऽमी सर्वे समस्तैरपि वा गवेष्याः ॥ कौलेयकास्तेषु वदंति शस्तं कार्येषु सर्वेष्वपि कृष्णवर्णम् ॥ ५ ॥ आचार्यमानीय शुभेह्निकार्य पैष्टं श्वयुग्मं शुचिरचयित्वा ॥ क्षीरेण भोज्यं भषणस्य तुष्टयै दद्यात्कुमारीशिशुबांधवेभ्यः ॥ ६ ॥ सर्वागकृष्णः परिपूर्ण काय शांतो निरोगस्तरुणो बलिष्टः ॥ अवामभागोन्नतपुच्छचेष्टो विभर्ति शूद्रो नखविंशतिं यः ॥ ७ ॥
॥ टीका ॥
इत्यादयः ||३|| श्वेता इति ॥ श्वेताः श्वेतवर्णाः श्वानः द्विजाः ब्राह्मणा भवति । रक्ताः रक्तवर्णाः क्षत्रियका भवति । पीताः पीतवर्णाः वैश्याः वैश्यजातीया भवति । असिताः कृष्णाः पुनः शूद्र भवंति । तथा इह विमिश्रवर्णाः शुनकाः नानाविधकारसंज्ञा भ वंति। नानाविध : कारूणां चित्रकारिणां संज्ञा नामानि येषां ते तथोक्ताः॥४॥ स्वेति ॥ समस्तैर अमी सर्वे कौलेयकाः स्वजातिरूपेण विशेषतो गवेष्याः तेषु सर्व कुक्कुरेषु पुनः कृष्णवर्ण श्वानं सर्वेष्वपि कार्येषु शस्तं वदंति ॥५॥ आचार्यमिति ॥ आचार्य शकुनशास्त्रज्ञम् आनीय शुमेऽह्नि पैष्टं पिष्टस्य गोधूमादिचूर्णस्य इद पैष्टश्वयुग्मं श्वानयुगलं स्त्रीपुंसलक्षणं कार्यं ततः शुचिः पुमांस्तमर्चयित्वा भाषणस्य तुष्टयै कु· मारीशिशुबांधवेभ्यः क्षीरान्नभोज्यं दद्यात् । कचित्क्षीरेण भोज्यमित्यपि पाठः ॥ ६ ॥ सर्वेति ॥ यः श्वानः नखविंशति विभर्त्ति स शूद्रः कथ्यते इति शेषः । कीदृक ॥ भाषा ॥
नाम हैं॥३॥श्वेता इति॥ श्वेतवर्ण के स्वानकी द्विजसंज्ञा है. लालवर्णकी क्षत्रिय संज्ञा है. पीतवर्णकी वैश्यसंज्ञा है. श्यामवर्णकी शूद्रसंज्ञा है, मिलवा वर्णकी कारुसंज्ञा है. कारु नाम चित्राम करबेवालेको है ॥ ४ ॥ स्वेति ॥ सबकरके ये कौलेयक जाति विशेषकरके ढूंढनो सब श्वाननमें कालो कुत्ता सर्वकार्यन में विख्यात हैं हैं ॥ ९ ॥ आचार्यमिति ॥ शुभ दिनं होय घा विनाशकुनशास्त्रके ज्ञाता आचार्यकूँ बुलाय कर चूनलेके श्वानको युगल स्त्रीपुरुषरूप करके पवित्र होय पूजनकरके श्वानकी तुष्टि के लिये क्षीरान्न भोजन कुमारी बालक बांधव इनके अर्थ देवे ॥ ६ ॥ सवैति ॥ जो श्वान कालो होय. न्यूनअंग जाको न होय. शांतरूप होय. निरोगी होय. युवा न होय. बलवान् होय. जेमने भागमें ऊंची पूंछ करे हुगो होय. वीसों नख जाके
ka
Aho! Shrutgyanam