________________
(३४०) वसंतराजशाकुने त्रयोदशो वर्गः। स्यादद्वितीयःफलमात्रदर्शी पूर्णो धराजो निनदः कदाचित्।। एकाकिनोऽन्यांश्चतुरोऽपि नादान्पूर्णानपि त्रासकृतो वदंति ॥ ५८ ॥ आप्यादिशब्दैः पुनरेकमात्रै रोगातुराणां मरणं कलिश्च ॥ एकाकिभिः स्युविविधास्त्वना मात्राद्वयाद्यैरपरे भवंति ॥ ५९ ॥ भौमाप्यसंज्ञौ शकुनिध्वनी यौ शुभेषु कार्येषु शुभप्रदौ तौ ॥ बाह्यस्तु कार्येषु तथा शुभेषु रुग्द्वेषभीबन्धवधादिकेषु ॥६०॥ इति पिंगलारुते केवलस्वरप्रकरणं पंचमम् ॥ ५॥
॥टीका ॥ चैकमात्र. तथाविधोऽसौ भवति तदा उशितुल्यः सदैव भयदो भवति ॥ ५७ ॥ स्यादिति ॥ धरानः भूमेरुत्पन्नः निनदः शब्दः अद्वितीयः कदाचित्फलमात्रदर्शी स्यात् । एकाकिनः अपूर्णाः अन्यांश्चतुरोपि नादान्पूर्णानपि पंचमात्रानपि त्रासकृती वदंति ॥ ५८ ॥ आप्यादीति ॥ आप्यादिशब्दैः पुनरेकमात्रैः रोगातुराणां मरणं कलिश्च स्यात् । एतैरेकाकिभिः केवलोच्चारितर्विविधास्त्वनाः स्युः अपरे मात्राद्वयाद्यैः पूर्वोक्तकार्यकारिणो भवंति ॥ ५९ ॥ भौमाप्येति ॥ शकुने निरीक्ष्य माणे भौमाप्यसंज्ञौ ध्वनितौ शुभेषु कार्येषु शुभप्रदौ भवतः तथा रुग्वेषभीवन्धवधादिकेषु अशुभेषु कार्येषु बाह्यः शुभः ॥ ६ ॥
इति वसंतराजटीकायां पिंगलारुते केवलस्वरफलप्रकरणम् ॥ ५॥
॥ भाषा॥
होय और एकमात्रा होय तो पृथ्वीके ईशकी तुत्य होय. सदा भयको देवेवारो होय ।। ॥ ५७ ॥ स्यादिति ॥ पृथ्वीको शब्द अद्वितीय होय पूर्ण होय तो फलमात्रको दिखायवे वारो होय. जो एकाकी होय अपूर्ण होय तो औरभी चारशब्द पूर्ण पांचमात्रा जिनमें तिनेहूं त्रासको करवेवारो कहेहैं ॥ ५८ ॥ आप्यादीति ॥ एकमात्रा जिनकी ऐसे जलादिक शब्दनकरके रोगातुरपुरुषनकू मरण और कलह होय. जो ये उच्चारणमात्र ही शब्द होय तो इनकरके अनेक अनर्थ होय. जो दोय मात्रादिक शब्द हैं उनकरके पूर्व कहे जे कार्य हैं ते होंय ॥ ५९ ॥ भौमाप्येति ॥ भीम और आप्य ये दोनों शब्द शुभकार्यमें शुभके देवेवारे हैं और अशुभकार्य जे रोग द्वेष भय बन्धन वध इत्यादिकनमें अशुभ
इति पिंगलारुते केवलस्वरफलप्रकरणं पंचमम् ॥५॥
Aho! Shrutgyanam