________________
पिंगलारुते धेन्वादिफलप्रकरणम् । (३३७ ) फलं समस्तं भवने स्वकीये भवेत्तथा मित्रगृहे फलार्धम् ॥ फलस्य नाशो रिपुमंदिरेषु जातैनिनादैर्वसुधादिसंज्ञैः ॥४८॥
__ इति पिंगलारुते स्वरबलप्रकरणम् ॥३॥ धेनुर्गर्भो वंध्य इत्यत्र तिस्रः प्रख्याप्यते कालभेदेन संज्ञाः॥ पिंगोक्तानां पार्थिवादिस्वराणामाख्यास्यामश्वार्थसंज्ञाफलानि ॥४९॥ स्यात्पार्थिवः पूर्वककुब्विभागे धेनुर्दिनादौ प्रहरद्वये च ॥ स एव गर्भः प्रहरे तृतीये वंध्यः स एव प्रहरे चतुथ ॥५०॥
॥ टीका
सौहदवैरिभावो मध्यस्थितिश्च स्वराणामभ्युदिता ॥ ४७ ॥ फलमिति ॥ वसुधादि संज्ञैनिनादैः स्वकीये भवने समस्त फलं भवति तथा मित्रगृहे फलार्ध भवति रिपुमं दिरे फलस्य नाशो भवति ॥४८॥
इति वसंतराजटीकायां पिंगलारुते स्वरबलप्रकरणम् ॥ ३ ॥ धेनुरिति ॥ पूर्वोक्तानां पार्थिवादिस्वराणां धेनुः गर्भः वध्य इति तिस्रः सज्ञाः कालभेदन प्रख्याप्यंते ततस्तेषामर्थसंज्ञाफलान्याख्यास्यामः॥४९ ॥ स्यादिति ॥ पूर्वककुब्विभागे दिनादौ प्रहरद्वये च मध्यंदिने पार्थिवः स्वरोधेनुसंज्ञः स्यात् तथा तृतीये प्रहरे स एव पार्थिवो गर्भसंज्ञः स्यात् तथा चतुर्थे प्रहरे स एव
॥ भाषा ॥
भाव कहेहे ॥ ४७ ॥ फलमिति ॥ पार्थिवकू आदि लेकर जे नाद तिनकरके अपने घरमें तो समस्त फल देवे हैं. और मित्रके घरमें आधो फल होय. और शत्रुके घरमें फलको नाश होय ॥ ४८॥ इति वसंतराजशाकुने भाषाटीकायां पिंगलारुते स्वरबलप्रकरणं तृतीयम् ॥ ३ ॥ ॥धेनुरिति ॥ पिंगलके कहेहुये जे पार्थिवादिक स्वर तिनकी धेनु, गर्भ, बंध्य ये तीनसंज्ञा कालभेद करके कहैहैं, और इनके अर्थ संज्ञा फल तिन्है कहैहैं ॥ ४९ ॥ स्यादिति ॥ पूर्व. दिशाके विभागमें दिनकी आदिमें दोयप्रहर ताई पार्थिवस्वरकी धेनुसंज्ञा है और तृतीय प्रहरमें पार्थिव शब्दकी गर्भसंज्ञा है और चतुर्थप्रहरमें पार्थिवकी बंध्यसंज्ञा है ॥५०॥
Aho! Shrutgyanam