________________
(३२६ )
वसंतराजशाकुने - त्रयोदशी वर्गः ।
तत्रैव तुयें प्रहरे रजन्यां गत्वा पुनस्तस्य तरोः समीपम् ॥ प्रपूज्य देवीं शपथांश्च दत्त्वा उच्चैर्वाचा कार्यमुदीरयेत्स्वम् ॥ ॥ २१ ॥ नीतं न दीप्तादिविचारकोटिं यत्पिंगलाया विरुतेऽत्र किंचित ॥ तद्ब्रह्मपुत्रीविरुतादशेषं विशेषतः शाकुनिकोऽवगच्छेत् ॥ २२ ॥
इति पिंगलिकरुते अधिवासनप्रकरणं प्रथमम् ॥ १ ॥
॥ टीका ॥
तत्रैवेति ॥ तुर्ये प्रहरे चतुर्थप्रहरे तत्रैव तरोस्तले गत्वा मृले देवीं प्रपूज्य शपथश्च दत्त्वा उच्चवाचा स्वकार्यमुदीरयेत् ॥ २१ ॥ नीतमिति ॥ अत्र पिंगलाया रुतेविरुते दीप्तादि यत्किंचिद्विचारकोटिं न नीतं तद्ब्रह्मपुत्रीविरुतादशेषं विशेषतः शाकु· निकः अगवच्छेत् ॥ २२ ॥
इति वसंतराजटीकायां पिंगलारुतेऽधिवासनप्रकरणं प्रथमम् ॥ १ ॥ यत्पिंगलाभिधानः रात्रिचरः पतत्री वर्तते तस्य अत्र शांतदीप्तस्वरूपमनुक्तमपि पूर्ववज्ज्ञेयं तद्यथा प्रथमं पृथ्वीजलतेजांसि शांतस्वराणि तत्र तेजस उभयरूपत्वात् शांतेन सह संगतः शांतिः दीप्तेन सह संगतो दीप्तः वाय्वाकाशौ शांतस्वरौ शांतदीप्तौ तथोच्चसमुखदक्षिणगामिनी गतिः शुभा स्ववृक्षान्महावृक्षगामिनी शुभा फलं पुष्पं भक्षमाणायाः पिंगलाया गतिः शुभा शांतेत्यर्थः अधोमुखं वाममुखं च कृत्वा उड्डयनं करोति दीप्ता वामगामिनी चंचला च गतिर्दीप्ता उपरि शाखातोऽधः शाखाश्रयिणी गतिः महाशाखाश्रयिणी गतिः महाशाखातो लघुशाखाश्रयिणी च गतिर्दीप्ता तथा कंटकवृक्षाश्रयिणी चइति शांतदीप्तगतिः । प्रथमहरे दक्षिणा कर्दमिता नैर्ऋत्यादिग्वारुणी पश्चिमा सौभागिनी वायव्या सगुणा उत्तरा धूमिता ईशाना धूमिता पूर्वा लोहिता
॥ भाषा ॥
वारे सत्य कहैं हैं ॥ २० ॥ तत्रैवेति ॥ रात्रि के चौथे प्रहरमें वाही वृक्ष के नीचे फ जाय देवीको पूजन कर सौगन्ध देकरके फिर ऊंचीवाणी कर अपनो कार्य कहै !! २१ ॥ नीतमिति ॥ या पिंगला के रुतमें दीप्तादिकविचार कभी नहीं है. या ब्रह्मपुत्रीके शब्दसू शकुनी विशेष करके समग्र जाने हैं ॥ २२ ॥
इतिवसंतराजभाषाटीकायां पिंगलिकारुतेऽधिवासनप्रकरण प्रथमम् ॥
जो पिंगल नामपक्षी रात्रिमें विचरे ताको यामें शांतदप्ति स्वरूप नहीं कह्यो है तो
Aho! Shrutgyanam