________________
(२८०).
वसंतराजशाकुने-द्वादशो वर्गः। शांतस्वरः शांतककुष्प्रदेशे तिष्ठन्प्रदीप्तां ककुभं च पश्यन्।। ददात्यभीष्टं फलमल्पमेव दीप्तामपश्यंस्तु तदेव पूर्णम्॥५॥ आकारचेष्टारवभावविज्ञा दग्धादिकाष्ठादि तयोः प्रमाणे ॥ सदाभियुक्ताश्च निरूपयंति विदति ते काकरुतं मनुष्याः५२ इति वसंतराजशाकुने काकरुते दिक्प्रकरणं प्रथमम् ॥ १॥ वर्षकालमधिकृत्य किंचन प्रोच्यतेबलिभुजोऽधुना क्रमात्॥ आलयांडकविचारसुंदरं शाकुनं सकलशाकुनोत्तमम्॥५३॥ वैशाखमासे निरुपद्रवेषु द्रुमेषु काकस्य शुभाय नीडम्॥निघेषु शुष्केषु सकंटकेषु वृक्षेषु दुर्भिक्षभयाय हेतुः ॥५४॥
॥ टीका ॥ दिगीक्षणेन रूक्षारवः अल्पमनिष्टं कथयति ॥ ५० ॥ शांत इति ॥ शांतककुप्पदेशे तिष्ठन् शांतस्वरः प्रदीप्तां ककुभं च पश्यन्त्र भीष्टं फलमल्पमेव ददाति दीप्तामपश्यन्पुनः तदेव पूर्ण फलं ददाति ॥ ५१ ॥ आकारेति ॥ तेऽभियुक्ताः पंडिता आकारचेष्टारवभावविज्ञाः दग्धादिकाष्ठादि यद्वर्त्तते तयोः प्रमाणे निरूपयंति ते मनुष्याः काकरतं विन्दति ॥५२॥
इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां वसंत रानटीकायां काकरुते दिक्चक्रप्रकरणं प्रथमम् ॥ १॥
वर्षकालमिति ॥ वर्षाकालमधिकृत्य अधुना बलिभुजः क्रमात् आलयोडकविचारसुंदरं शाकुनं सकलशाकुनोत्तमं प्रोच्यते ॥ ५३ ॥ वैशाख इति ॥ वैशा
॥ भाषा॥ रूखोशब्दबोलै तो अल्प अनिष्ट फल कहैहै ॥ ५० ॥ शांतस्वर इति ॥ शांतदिशामें बैठो होय शांतस्वर बोलतो होय. और दीप्तदिशामें देखतो होय, तो अभीष्ट फल अल्पही देवे. जो दीप्त दिशामें नहीं देखतो होय तो फिर वोही पूर्ण फल देवै ॥ ५१ ॥ आकारइति ॥ जे आकार चेष्टा शब्द भाव इनकू जानै और दग्धादि दिशादिकनके प्रमाणमों निरूपण करें योग्य होय ते मनुष्य काकके शब्दकू जाने हैं ॥ १२ ॥
- इति श्रीवसंतराजभाषाटीकायां काकरते दिक्प्रकरणं प्रथमम् ॥१॥ वर्षकालमिति ॥ वर्षाकालकू अधिकार करके अब काकको स्थान अंडाके विचारतूं सुंदर सबशकुननमें उत्तम शकुन कहहैं ॥ ५३ ॥ वैशाखेति ॥ वैशाखके महीनामें उपद्र
Aho! Shrutgyanam