________________
(२७८) वसंतराजशाकुने द्वादशो वर्गः। वायव्यभागे करटस्य शब्दैरायातियोषित्प्रियमानिनी या॥ ध्रुवं प्रवासो दिनसप्तकेन शीघ्रागमः स्याद्मने कृते च ॥ ॥ ४४ ॥कुबेरभागे पथिकोऽभ्युपैति तांबूललाभः कशलस्य वार्ता ॥ वैश्यादनाप्तिस्तुरगाधिरूढायात्रा विभूत्यै म्रियते च रोगी ॥ ४५ ॥ स्थाणोर्दिशिस्थैर्बलिभुग्विरावैः सुवर्णवार्ता सरुजो विनाशः ॥ ब्रह्मप्रदेशे प्रहरे तु तुर्ये वार्ता भवेन्मध्यमिकेष्टसिद्धिः ॥ ४६॥ इति काकरुते दिक्चक्रप्रकरणे चतुर्थप्रहरे शुभाशुभफलम् ॥
॥ टीका ॥ इरस्यति ॥ ४३ ॥ वायव्येति वायव्यभागे करटस्य शब्दैः प्रियमानिनी या योषिद्भवति सा आयाति तथा दिनसप्तकेन ध्रुवं प्रवासो भवति गमने कृते च शीघ्रागम: स्यात् ॥ ४४ ॥ कुबेर इति ।। उत्तरस्यां पथिकः अभ्युपैति तथा तांबूलस्य लाभः कुशलस्य च वार्ता तथा वैश्याइनाप्तिः तुरगाधिरूढा च यात्रा विभूत्यै भवति रोगी म्रियते च ॥ ४५ ॥ स्थाणारिति ॥ स्थाणोदिशिस्थैः बलिभुग्विरावैः सुवर्णवार्ता स्यात् सरुजश्च विनाशः ब्रह्मप्रदेशे तुरीये प्रहरे यात्रा मध्यमिका भवेत् तथेष्टसिद्धिश्च ॥ ४६ ॥ इति वसंतराजटीकायां काकरते दिक्प्रकरणे चतुर्थप्रहरे शुभाशुभफलम् ॥ .
॥ भाषा ॥ जलकी वर्षा, प्रयाणमें सिद्धि राजा और धनवान् वैश्य ये होंय. वा प्रयाणमें राजा और धनवान् वैश्य मिलें ॥ ४३ ॥ वायव्यति ॥ वायव्यकोणमें काक बोले तो भतरकर मानबेके योग्य ऐसी स्त्री आवे. और सातदिनमें निश्चयही प्रवास अर्थात् यात्रागमन या गमन करे तो शीघ्र आगमन होय ॥ ४४ ॥ कुबेर इति ॥ उत्तरदिशामें बोले तो पथिक घर आवे. और तांबूलको लाभ कुशलकी वार्ता वैश्यते धनकी प्राप्ति, घोडापै बैठनो, यात्रा करै तो विभूति होय और रोगी होय तो मरै ॥ ४५ ॥ स्थाणोरिति ॥ ईशानकोणमें काकबोले चौथे प्रहरमें तो सुवर्णकी वार्ता, रोगको नाश करै, और आकाशमें ठाढो होय बोले तो यात्रा मध्यमिका होय. और इष्टसिद्धि होय ॥ ४६ ॥ इति श्रीवसंतराजभाषाटीकायां काकरते दिक्चक्रप्रकरणे चतुर्थप्रहरे
शुभाशुभफलम् ॥