________________
(२४०) वसंतराजशाकुने-अष्टमो वर्गः।
अन्यान्क्षुधा विदधातिनादान्मिष्टान्नदो वाममुपैति केकी। मांगल्यदो नृत्यति भाषितेन प्रीतिः शुभं तस्य विलोकितेन ॥२३॥
.. ॥ इति मयूरः॥ संकीर्तनालोकननादयानरूहेत दात्यूहगतैर्मनुष्यः ॥ सिद्धि सदा सर्वमनोरथानां दात्यहवत्कुक्कुटमामनंति ॥ २४ ॥
॥ इति दात्यूहकुक्कुटौ ॥
॥ टीका ॥ अन्यानिति ॥ अतिक्षुधातः अन्यान् नादान् विदधाति यदा वाममुपैति केकी तदा मिष्टान्नदः स्यात् । यदा पुनः नृत्यति तदा मांगल्यदः तस्य भाषितेन प्रीतिः स्यात् । तस्य विलोकनेन शुभं स्यात् ॥ २३ ॥
॥ इति मयूरः॥ ॥ संकीर्तनेति ॥ संकीर्तनालोकननादयानैः मनुष्यः दात्यूहगतिमूहेत तदा सर्वमनोरथानां सिद्धिः स्यात् दात्यूहवत्कुक्कुटमप्यामनंति तत्र दात्यूह इति नाम्ना मध्यदेशे प्रसिद्धः कुत्रचिदांतुल इति जलजंतः कुक्कुटःजलकुक्कुटःकुक्कुटकुंभारोवा गुर्जरदेशे प्रसिद्धः ॥ २४ ॥
॥इति दात्यूहकुक्कुटौ ॥
॥ भाषा ॥ छठे शब्दमें कर्म सिद्धि होय ॥ २२ ॥ अन्यानिति ॥ अत्यंतक्षुधात होय और शब्दकर वामभागमें आयजाय तो मयूर मिष्टान्नकू देवे जो फिर नृत्य करे तो मांगल्य देवे. मयूरके शब्दकरके प्रीति होय और याके देखवेकरके शुभ होय ॥ २३ ॥
॥इति मयूरः॥ ॥ संकीर्तनति ॥ संकीर्तन आलोकन शब्द गमन इनकरके मनुष्य दात्यूहकी गति ताय प्राप्त होय तो सर्व मनोरथकी सिद्धि होय और दात्यूहकी सी नाई कुक्कुटकुंभी कहेहैं ।। दात्यूह नाम करके मध्यदेशमें प्रसिद्ध है. कहूं वाकू दांतुल कहैं हैं. जलजंतु है कुक्कुट नाम जलकुक्कूडा वा कुक्कुट नाम कुंभारो गुर्जरदेशमें प्रसिद्ध है ॥ २४ ॥
॥ इति दात्यूहकुक्कुटौ ॥
Aho! Shrutgyanam