________________
पोदकीरुते हंसादिप्रकरणम् । (२३९) भासा वनांते बहवः समेताःप्रयांति चेदृष्टिपथं तदानीम् ॥ ज्ञेयं लवं तस्करसंप्रवृत्तं यात्रासु भासः शुभदोऽपसव्यः ॥ ॥२०॥ भासस्य शब्दादवलोकनाद्वा प्रदक्षिणाद्वा भवने वने वा॥ लाभोऽस्य शब्देषु बहुष्वरण्ये श्रुतेषु संगः सह राजपत्न्या ॥२१॥
॥ इति भासः॥ मयूरशब्दे प्रथमर्थलाभः स्त्रियं द्वितीये लभते तृतीये ॥ नृपाद्भयं चौरभयं चतुर्थे भीः पंचमे सिध्यति कर्म षष्ठे ॥२२॥
॥ टीका ॥ · भासा इति ॥ वनांते बहवो भासाः समेताः दृष्टिपथं प्रयांतिचेत् तदानी लवं लवमानं तस्करसंप्रवृत्तं ज्ञेयम् यात्रासु भासपक्षी अपसव्यः शुभदो भवति।॥२०॥ भासस्येति ॥ भवने भासस्य शब्दादवलोकनात प्रदक्षिणाद्वा लाभः स्यात् । अरण्ये बहुषु शब्देषु श्रुतेषु राजपन्यासह संगःस्यादव भासशब्देन गौर्जरप्रसिद्धा कावरिः मध्यदेशे गुडशिल: पश्चिमायां गोगलः स्मृत्यादौ गोष्ठकुक्कुरः इतिप्रसिद्धः॥२१॥
॥ इति भासः॥ मयूरोत ॥ मयूरशब्दे प्रथमे अर्थलाभः स्यात् । द्वितीये स्त्रियं लभते तृतीये नृपाद्भयं स्यात् चतुर्थे चौरभयं भवति पंचमे भीः स्यात् षष्ठे कर्म सिद्धयति ॥ २२ ॥
॥ भाषा॥ ॥भासा इति ॥ वनमें बहुत से भासपक्षी इकडे होयजाँय वे देखवेमें आवें कछुक चौरनकर उपाधि होय और यात्रानमें भासपक्षी अपसव्य शुभको देबेवारो है ॥ २० ॥ ॥भासस्येति ॥ घरमें भासके शब्दते अवलोकनते वा प्रदक्षिणाते लाभ होय. और अरण्यमें बहुतसे शब्द श्रवण करवेमें आवे तो राजाकी स्त्रीको समागम होय. भासनाम करके गौर्जरदेशमें प्रसिद्ध है. और कावार या नामकर मध्यदेशमें विख्यात है और पश्चिम देशमें गुडशिल या नामकर प्रसिद्ध है. और स्मृत्यादिकनमें गोगल नामकर प्रसिद्ध है और गोष्ठकुर्कुट ये प्रसिद्ध नाम हैं ॥ २१ ॥
॥ इति भासः॥ भयरेति ॥ मयूरको शब्द प्रथम होय तो अर्थलाभ होय. द्वितीयशब्दमें स्त्रीलाभ होय. तृतीयशब्दमें राजाते भय होय चतुर्थ शब्दमें चौरको भय होय पंचममें भय होय.
Aho! Shrutgyanam