________________
( २१७ )
पोदकीरुते सुखादिप्रकरणम् । तत्कालनीतेषु गवादिकेषु क्षेमाय लाभार्थमयात्रिकः स्यात् ॥ भवेच्च कालांतरितापहारे प्रस्थानशंसी शकुनः शुभाय ३८९ ॥ 'वामतः सृजति यावतः स्वरांस्तावतो बलवतोऽथ तस्करान् ॥ दक्षिणा भगवती नु यावतस्तावतस्त्वभिदधाति दुर्बलान् ॥ ॥ ३९० ॥ मार्गभ्रमेऽरण्यगतस्य जाते धनुर्धरीं पश्यति येन यांतीम् ॥ मार्गेण तेनानुसरेन्मनुष्यः पंथानमासादयते पुरस्तात् ॥ ३९१ ॥ नायं चौरो निश्चित्तं देवदत्तः साधुः शुद्धिं लप्स्यते चेति पृष्टे ॥ कृत्वा शब्दं दक्षिणा ब्रह्मपुत्री यायाच्चेतद्दह्यतेसौ न दिव्ये ॥ ३९२ ॥
॥ टीका ॥
पश्चितः प्रत्यागमाय प्रतिपादयंति ॥ ३८८ ॥ तत्कालइति ॥ तत्कालनीतेषु गवादिकेषु क्षेमार्थं लाभार्थं च अयात्रिकः स्यात् च पुनरर्थे कालांतरितापहारे प्रस्थानश सी शकुनः शुभाय भवति ॥ ३८९ ॥ वामत इति ।। भगवती यावतः स्वरान्वामतः सृजति करोति तावतो बलवतः तस्करान् अभिदधाति दक्षिणेन पुनः यावत: स्वरान्करोति तावतः दुर्बलांस्तस्करानभिदधाति ॥ ३९० ॥ मार्गभ्रम इति ॥ अरण्य गतस्य पुंसः मार्गभ्रमे जाते सति पुमान् धनुर्धरी यांती येन पथा पश्यति तेन पथा मनुष्यः अनुसरेद्गच्छेत् पुरस्तात् पंथानमासादयते ॥ ३९१ ॥ नायमिति ॥ नायं चौरः निश्चितं देवदत्तः साधुः शुद्धिं लप्स्यते चेति पृष्ठे यदि शब्दं कृत्वा दक्षिणा
॥ भाषा ॥ ॥ तत्काल इति ॥ जो चोर गवादिकनकूं तत्काल हर करके लेगयो होय तो क्षेमके लिये लाभके लिये औरविना गये विना आय जाय ऐसो कहनो और जो कालांतर में हरण हुये होय तो गये ते आवे शकुन शुभ जाननो ॥ २८९ ॥ वामत इति ॥ पोदकी जितने स्वर वामभागते करे उतने ही चौर बलवान् कहे. और दक्षिणभाग में जितने स्वर करे तितनेही दुर्बल तस्कर कहै || ३९० || मार्गभ्रम इति ॥ वनमें गमन करे ताकूं जो मार्ग में भ्रम होय जाय तब धनुर्धरी जा मार्ग कर गमन करती दीखै ताही मार्गमें पीछे पीछे चल्यो जाय तो अगाडी मार्ग मिलजाय ॥ ३९९ ॥ नायमिति ॥ ये निश्चय चौर है वा साधु हैं ऐसो प्रश्न "करे तब जो श्यामा शब्दकरके दक्षिणा होय तो दिव्य शुद्ध जाननो ॥ ३९२ ॥
Aho! Shrutgyanam