________________
(२००) वसंतराजशाकुने-सप्तमो वर्गः।
आद्यस्त्रिधा त्रैधमथ द्वितीयस्ततस्तृतीयश्च चतुर्विभागः॥ एवं त्रयस्तोरणभूमिभागारेखादिभेदैर्दशधा विधेयाः ३२८॥ आर्द्रादिकं स्वात्यवसानमेतनक्षत्रवृंदे दशकं यदस्ति। तत्सनिवेश्यं दशसु क्रमेण विपश्चिता तोरणभूदलेषु ॥ ॥३२९॥ मध्यादेषामत्र भानांदशानां किंधिष्ण्यस्थे भास्करे वर्षणं स्यात् ॥ एवं पृष्टे यत्र नक्षत्रभागे तारा गच्छेत्तद्गतेबु पातः॥३३०॥श्यामा वामा याति नक्षत्रभागे यस्मिन्न स्यादपणं तद्गते ॥ सर्वा वृष्टिं निश्चितार्थी विपश्चित्कुर्वीतैवं वासराणां त्रयेण ॥ ३३१॥
॥ टीका॥
अस्मिन् श्यामारुते विमर्शः क्रियते मयेति शेषः ॥ ३२७ ॥ आद्य इति ॥ आद्यः प्रथमः तोरणभूविभागः त्रिधा कार्यः द्वितीयस्त्रिधैव तृतीयश्चतुर्विभागः कार्यः एवममुना प्रकारेण त्रयस्तोरणभूमिभागाः रेखादिभेदैः दशधा विधेयाः ॥ ३२८॥ आप्र॒दिकमिति ॥ यन्नक्षत्रवृंदे आर्दादिकं स्वात्यवसानं नक्षत्रदशकं यदस्ति तत्कमेण दशम तोरणभू दलेषु विपश्चिता संवेश्यम् ॥ ३२९ ॥ मध्यादिति ॥ अथ एषां भानां दशानां मध्यात्किधिष्ण्यस्थे भास्करे वर्ष स्यादिति पृष्टे यत्र नक्षत्रभागे तारा गच्छेत् तद्गते अम्बुपातः स्पात् ॥ ३३० ॥ श्यामेति ॥ यस्मिनक्षत्रभागे श्यामा वामा याति तद्गते वर्षणं न स्यात् । एवं पूर्वोक्तप्रकारेण विपश्चित्पंडितः
॥ भाषा॥
रुतमें करें हैं ॥ ३२७ ॥ आद्य इति ॥ पहले तोरणकी पृथ्वीके तीन विभाग करने. दूसरी तीसरो चौथो ये तीनों विभाग करके इनकू फिर रेखादिक करके दशदल करने ॥ ३२८ ॥
आादिकमिति ॥ सत्ताईस नक्षत्रमेंसू आ नक्षत्रते लेकर स्वातीनक्षत्र तक नक्षत्र हैं इन दश नक्षत्रनकू तोरणकी पृथ्वीके दशदलनमें क्रम करके स्थापन करै ॥ ३२९ ॥ मध्यादिति॥ इन दश नक्षत्रनके मध्यमेंसूं कौन नक्षत्रप सूर्य स्थित होयँ तब वर्षा करें, ऐसो प्रश्न कर, तब जा नक्षत्रभागमें श्यामा तारा होय ता नक्षत्रपै सूर्य आत्रे तब वर्षा होय ॥ ३३० ॥ श्यामेति ॥ जा नक्षत्रभागमें श्यामा वामा होय वा नक्षत्रौ सूर्य आवें तब वर्षा न करें. और पूर्व प्रकारके विवेकी तीन दिन ताई सर्ववृष्टि निश्चय करें ऐसो कहैं हैं ॥ ३३१ ॥
Aho ! Shrutgyanam