________________
(१८२) . वसंतराजशाकुने-सप्तमो वर्गः। प्रदक्षिणं गच्छति पक्षियुग्मं ततः समारोहति पादपं चेत् ॥ फलप्रसूनांकुरपत्रहीनं जायापती चेद्भवतो दरिद्रौ ॥२६२॥ कृत्वा वं दक्षिणतश्च गत्वा श्यामागुमं शुष्कमधिष्ठिता चेत् ॥ तद्वंध्यतां जल्पति कन्यकायाः षंढत्वमाख्याति खगो नरस्य ॥२६३॥ उभे विहंग्यौ विहगस्तथैको यदि त्रयं दक्षिणभागमेति ॥ सौभाग्यसौहार्दमहानिधानं वोढुस्तदा द्वे भवतो युवत्यौ ।। २६४ ॥ तारस्य पक्षिद्वितयस्य मध्यात्खमांतरं चेच्छ्रयते विहंगी ॥ तदा कुमारी परिणीयते या सा निश्चितं दुश्चरिता भवित्री ॥ २६५॥
॥ टीका॥
कुमार्याः कपालव्रतधारितां ब्रूते खगश्चेन्नरस्य तद्भूते ॥ २६१ ॥ प्रदक्षिणमिति ॥ पक्षियुग्मंप्रदक्षिणं गच्छति ततः फलप्रसूनांकुरपत्रहीनं पादपं चेत्समारोहति तदा तज्जायापती दरिद्रौ भवतः॥२६२॥ कृत्वेति यदि रवं कृत्वा दक्षिणतः गत्वा चेच्छामा शुष्कटुमं अधिष्ठिता स्यात् तदा कन्यकायास्तद्वंध्यतां जल्पति खगोनरस्य पंढत्वमाख्याति ॥ २६३ ॥ उभे इति ।। उभे विहंग्यौ तथैको विहंगः यदि त्रयं दक्षिणमार्गयायी भवति तदा वोढुः द्वे युवत्यौ भवतः सौभाग्यसौहार्दमहानिधानं यथा स्यात्तथेति क्रियाविशेषणम् ॥ २६४ ॥ तारस्यति ॥ तारस्य पक्षिद्वयस्य मध्यात् खगांतरं चेद्विहंगी श्रयते तदा या कुमारी परिणीयते सा निश्चितं दुश्चरिता
॥भाषा॥
अर्थात् भ्रष्ट होय जाय ॥ २६१ ॥ प्रदक्षिणमिति ॥ जो पोदकीको युग्म दक्षिणभागमें गमन करे ता पीछे फल, पुष्प, अंकुर, पत्र, इनकरके हीनसूखे वृक्ष पै चढजाय तो स्त्रीपुरुष दोनों दरिद्री होय ॥२६२ ॥ कृत्वति ॥ जो पोदकी शब्दकरके दक्षिणते जायकरके सूखे वृक्ष पै जाय बैठे तो कन्याकू बंध्या करे और जो पुरुष पक्षी या रीतिसं स्थित होय तो वरकू नपुंसकता कहैहैं ॥ २६३ ॥ उभे इति ॥ दोय पोदकी एक विहंग ये तीनों दक्षिणमार्गमें गमन करे तो वरके सौभाग्य सुहृद महान् धन इनसहित दोय स्त्री होय ॥ २६४ ॥ तारस्पति । पोदकीके युगलमेंसू जो पोदकी और पक्षीको आश्रय करे तो ल्याही कन्या
Aho | Shrutgyanam
.