________________
१४२ ) . वसंतराजशाकुने-सप्तमो वर्गः। वामेऽग्रतो दक्षिणतश्च यांती प्रत्यक्षदेवी पथिकेन साकम् ।। वरिष्ठमध्याधमसंज्ञकानि ध्रुवं फलानि क्रमतो विधत्ते ।। ॥ १२५ ॥ दक्षिणमध्यमवामविभागाद्या व्रजतेऽभिमुखी समुपैति ॥ सा क्रमतो बहुमध्यममल्पं दुष्टफलं कुरुते पुरुपाणाम् ॥ १२६ ॥ प्रदक्षिणेन प्रविवेष्टयंती यथेष्टलाभं कुरुते कुमारी ॥ वामेन भागेन पुनः पुमांसमावेष्टयंती मरणं करोति ।। १२७॥
॥ टीका ॥ कंठे च कंठप्रदेशे गमनेन कंठाभरणस्य लाभः स्यात्।ललाटदेशेऽपि च तारागमनेन पट्टबंधः स्यात् । शिरसि छत्रलाभः स्यात् । कया प्रयाणे यात्रायां जान्वादिपमितया तारया तारागमनेन ग्रामप्रवेशे वामयावामप्रदेशगमनेन पूर्वोक्तलाभः स्यादित्यर्थः॥ १२४ ॥वामेग्रत इति ॥ प्रत्यक्षदेवी पथिकेन साकं पांथेन साधू वामेऽग्रतो दक्षिणतश्च यांती वामे वामभागे अग्रतःपुरस्तादक्षिणतश्च दक्षिणस्यामिति दक्षिणत इति सार्वविभक्तिकस्तसिल् । यांतीत्यस्य प्रत्येकमनुषंगः। तथा च वामे यांती दक्षिणतश्च यांतीत्यर्थः । वरिष्ठमध्याधमसंज्ञकानि फलानि क्रमतः अभिधत्ते कथयति वरिष्ठं च मध्यं च अवमसंज्ञकं च वरिष्टमध्याधमसंज्ञकानीतरेतरबंदः ॥ १२५ ॥ दक्षिणेति॥ या कुमारी बजतः गमनं कर्तुः पुरुषस्य दक्षिणमध्यमवामविभागात् दक्षिणमध्यमवामप्रदेशात् अभिमुखी संमुखी समुपैति आयाति सा क्रमतःअनुक्रमेण वहु मध्यममल्पं बहुप्रचुरं मध्यमं ततः किंचिन्न्यूनमल्पं मध्यमस्वल्पं पुरुषाणांदुष्टफुलं कुरुते ॥ १२६ ॥ प्रदक्षिणेनेति ॥ प्रदक्षिणेन भागेन पुरुषमावेष्टयंती यथेष्ट
॥ भाषा ॥
मिले और मस्तकमें छत्रको लाभ होय यात्रा समयमें तो जानुकू आदिलेके तारा कहीं सो दक्षिणगमन करके फलक देवेवारी जाननी. और ग्रामप्रवेश समयमें तारा वामभागकरके पूर्व फलकी देवेवारी जाननी ॥ १२४ ॥ वामेग्रत इति ॥ तारामार्गी करके सहित बांये माऊं वा अगाडी वा जेमने माऊं जाय तो श्रेष्ठ मध्यम अधम संज्ञा जिनकी ऐसे फल कमकरके करे है ॥ १२५ ॥ दक्षिणेति ॥ तारागमन करवेवारे पुरुषकं दक्षिण मध्यम वामभागते सम्मुख
आयजाय तो क्रमते मनुष्यनकू बहुत मध्यम अल्प दुष्ट फल करै ॥ १२६ ॥ प्रदक्षिणनोति ॥ . कुमारी मार्गमें जेमने. माऊं होय कर पुरुष आवेष्टन कर ले तो यथेष्ट लाभ करै. और
Aho! Shrutgyanam