________________
(१२४)
वसंतराजशाकुने-सप्तमो वर्गः। इति पोदकीरुते तृतीयं स्वरप्रकरणम् ॥३॥ अथ शुभचेष्टाफलमपि तासां युगपद्रूमः खलु सर्वासाम् ॥ उक्त्वा पृथगथ युगपत्कथितं यैस्तैरबुधैर्मथितं मथितम् ॥ ॥ ६६ ॥ या संमुखी नाभिमुखं समेति विलोकयेच्चाऽभिमुखं विशंका ॥ प्रोत्फुल्लवका शकुनी मनुष्यैः सा वेदितव्या परितुष्टभावा ॥ ६७ ॥ मनःप्रसत्तिं सुमनस्कभावात्प्रीता मुदं वांछितलाभतश्च ॥ इष्टं फलं संमुखमाभिमुख्यादुत्फुल्लववेष्टफलं ददाति ॥ ६८॥
॥ टीका ॥ दीप्तः दीप्तकार्ये शांतः इति वैपरीत्याबावपि न प्रशस्तौ न श्लाघनीयौ यतस्तौ अस्तित्वनास्तित्वफलौ ॥ ६५ ॥ इति श्रीमहोपाध्याय भानुचंद्रविरचितायां वसंतरानटीकायां पोदकी.
रुते तृतीयं स्वरप्रकरणम् ॥ ३ ॥ अथेति ॥ स्वरकथनानंतरं शुभचेष्टास्तासां सर्वासां चेष्टानां च फलमपि खलु निश्चयेन युगपदेकदैव वयं ब्रूमः कथयामः। चेष्टाः उक्त्वायैः फलं पृथगुक्तं तैरबुधैः मथितं मथितं पिष्टपेषणं कृतमित्यर्थः।। ६६॥ येति ॥ या शकुनी देवी संमुखी भवति न अभिमुखं संमुखं समेति आयाति च पुनः विशंका भयरहिता अभिमुखं सं मुखे विलोकयेत्पश्येताकीदृशी प्रोत्फुल्लवक्रोति।प्रोत्फुल्लं विकसितं वक्त्रं मुखं यस्याः सा तथा मनुष्यैः सा परितुष्टभावा सानंदा वेदितव्या ज्ञातव्येत्यर्थः ॥ ६७ ॥ मन इति ॥ सुमनस्कभावा सुप्रन्नचित्ता मनःप्रसत्तिं चित्तप्रसन्नतां यच्छति
॥ भाषा॥
दीप्त कार्यमें शांत होय या रीतसूं विपरीत होय तो दोनोंही शुभ नहीं अर्थात् फल होयभी वा नहीं
भी होय ॥ ६५ ॥ ... इति श्रीवसंतराजशाकुनभाषाटीयायांपादकीरुतेस्वरप्रकरणंतृतीयम् ॥ ३ ॥
अथेति ॥ स्वर कहेके अनंतर शुभचेष्टानके फल कहै है ॥ ६६ ॥ येति ।। जो शकुनीदेवी सन्मुखी होय अथवा सन्मुख न होय प्रसन्नमुख होय निःशंक सन्मुख देखती होय तो मनुष्यनकू आनंदसहित जाननो योग्य है ॥ ६७ ॥ मन इति ॥ पोदकी प्रसन्नमन होय तो
Aho ! Shrutgyanam