________________
( ८० )
वसंतराजशाकुने - षष्ठो वर्गः ।
अत्रैव कार्ये पुनरेवमन्ये वदंति तत्प्राक्तनमानभांडम् ॥ भांडांतरस्योपरि संनिदध्युः पाषाणखंडेन ततोऽपिदध्युः ॥ ॥ १० ॥ विन्यस्य तस्योपरि मार्जनीं च तिस्रः कुमारीसहितास्तरुण्यः ॥ तत्सर्वमादाय जने प्रसुप्ते चांडालगेहांतिकमाश्रयेयुः ॥ ११ ॥ पूर्वोदितं तत्र विधिं विधाय दत्तावधानाः शृणुयुस्ततस्ताः ॥ चांडालगेहे यदि कोऽपि किंचिद्रवीति कार्येऽपि तथाऽवधार्यम् ॥ १२ ॥
॥ 'टीका ॥
गहवर्तिना नरेण स्त्रिया वा वचनमीरितं भाषितंः भाविनि भविष्यति प्रयोजने कार्ये तदवितथं सत्यं भवति ॥ ९ ॥ अत्रेति ॥ अत्रैव कायें अन्ये सुरयः पुनरेवं वदंति ताः स्त्रियः तन्मानभांडं भांडांतरस्योपरि संनिदध्युः स्थापयेयुः ततः पाषाणखंडेन पिदध्युराच्छादयेयुः ॥ १० ॥ विन्यस्येति ॥ कुमारी सहितास्तिस्रस्तरुण्यश्चांडालगेहांतिकमाश्रयेयुः चांडालगेहस्य संनिधि गच्छेयुः किं कृत्वा तस्योपरि मार्जनीं विन्यस्य स्थापयित्वा पुनः किं कृत्वा तत्सर्वं पूर्वोक्तमादाय कस्मिन्सति प्रसुप्ते जने सति लोके निद्रां गते सतीत्यर्थः ॥ ११ ॥ पूर्वोदितमिति ॥ ततः पूर्वोदितं पूर्वप्रतिपादितं तत्र विधि विधाय कृत्वा दत्तावधाना इति दत्तमवधानमुपयोगो याभिस्ताः नार्यः गृणुयुः यदि चांडाल गेहे कोपि किंचिद्रवीति कार्येऽपि भाविप्रयोजनेऽपि तदा तदवधार्थी तथा फलं विचारणीयमित्यर्थः ॥ १२ ॥
॥ भाषा ॥
कहे हुये वचन कार्य में सत्यही होय ॥ ९ ॥ अत्रेति ॥ याही कार्यमें, और आचार्य येत कहे हैं वैई स्त्री वो जो पात्र है ताकूं कोई और पात्रके ऊपर धरनो फिर वा पात्रकू पाषाणके टूकसूं ढक देनों ॥ १० ॥ विन्यस्येति ॥ फिर वाके ऊपर नवीन मार्जेनी बुहारी धरनी फिर तीनो स्त्री कुमारी कन्यासहित ये सर्व लेकरके मनुष्य सबसोयजाँय तब चांडालकें घरके समीप जायँ ॥ ११ ॥ पूर्वोदितमिति ॥ पूर्व कहा जो विधि ताय करके चुपचाप होय वाणी श्रवण करें जो चांडालके घरमें कोई कछू कहै ताय श्रवण करके अपने कार्यमें वि
Aho! Shrutgyanam