________________
(६८) ... वसंतराजशाकुने-पंचमो-वर्गः। गीर्वाणवीणाफलभद्रपीठपुष्पांजनालंकरणायुधानि ॥ तांबूलयानासनवर्धमानध्वजातपत्रव्यजनांबराणि ॥ ४ ॥ अंभोजगारसमिद्धवह्निगजाजवायांकुशचामराणि ॥ रत्नानि चामीकरताम्ररूप्यं बढेकपादोषधयः सुरा च ॥५॥
॥ टीका ॥
नीयेन पूर्णाः घटाः सिद्धानं सिद्धमन्नं सिद्धार्थकः सर्षपः चंदनं मलयजं आदर्शःमुकुरः शंख जलज आमिषं मांसं मीनो मत्स्य मृत्स्ना मृत्तिका गोरोचना गवामुदरासमद्भतं पीतवर्ण गोमयं छगणं गौः प्रसिद्धा मधुमधुमक्षिकामुखनिष्ठयूतम् ॥३॥ गीर्वाण इति ॥ गीर्वाणः देवप्रतिमा वीणा वल्लकी फलं प्रसिद्धं भद्रपीठं सिंहासनं पुष्पं कुसुममंजनं नेत्रांजनमलंकरणमलंकारः आयुधं शस्त्रं पश्चादितरेतरबंदः । तांबूलेति तांबूलं प्रसिद्धं यानं वाहनमासनं चतुष्किकादि वर्धमानः शरावसपुटः ध्वजो वैजयंती आतपत्रं छत्रं व्यजनं प्रसिद्धमंबराण्यकुंशान्यत्रेतरेतरःसमासः॥४॥ अंभोजेति॥अंभोज कमलं भंगारः कलशः झारीति प्रसिद्धः समिद्धवह्निः दीप्तवहिः गजो हस्तीअजश्छागः वायं भेयादि अंकुशं मृणिः प्रतीतं चामरं बालव्यजनं रत्नं प्रसिद्धं चामीकरं सुवर्ण रौप्यं रजतं तानं प्रसिद्ध बढेकपशुः बद्धश्चासौ एकपशुश्चेति विग्रहः पशूनां वृंदमेकः पशुर्वा ओषध्यः फलपाकांताः सुरा मद्यम् ॥५॥
॥ भाषा॥
चावल ४ जलकोभन्यो कुंभ ५ सिद्ध हुयोअन्न ६ सर्षप-सरसों ७ चंदन ८ काच ९ शंख १० मांस ११ मत्स्य १२ मृत्तिका १३ गोरोचन १.४ गोबर १५ गौ १६ सहत १७ ॥ ३ ॥ गीवाणेति ॥ देवतानकी प्रतिमा १८ वीणा १९ फल २० सिंहासन २१ पुष्प २२ नेत्रनको अंजन काजल वा सुरमा २३ अलंकार भूषण २४ शस्त्र २५ तांबूल २६ वाहन २७ आसन--पालकी म्यानो २८ शरावसंपुट २९ ध्वजा ३० छत्र ३१ व्यजन पंखा३२ वस्त्र ३३ ॥ ४ ॥ अंभोजेति ॥ कमल ३४ कलश-झारी ३५ दप्तिहुई अग्नि ३६ गज ३७ बकरियां ३८ भेरीकू आदिलेके बाजे ३९ अंकुश ४० चमर ४१ रत्न ४२ सुवर्ण ४३ चांदी ४४ तामो ४५ बंधेहुये पशुनको समूह वा एकपशु पाँव जाको एक बंधो होय ४६ फलजामें पक गये होंय ऐसी औषधी ४७ मदिरा ४८ ॥ ५ ॥
Aho! Shrutgyanam