________________
( ६४ )
वसंतराजशाकुने- चतुर्थो वर्गः ।
वामाः क्वचिद्दक्षिणतः क्वचिच्च देशे शिवाकाककरापिकाणाम् || शब्दाः प्रशस्ताः शकुनं तु तस्माल्लोकप्रसिद्धयाऽपि परीक्षणीयम् ॥ ६५ ॥ सदाध्वगैर्योजनमात्रशेषे कल्याणकामैर्नगरप्रवेशे ॥ ग्रामप्रवेशेऽपि च गीतहास्ये कोशावशेषे परिवर्जनीये ॥ ६६ ॥ सव्यापसव्याभिमुखी तथाऽन्या पराङ्मुखी चोर्द्धमधोमुखी च ॥ सव्यापसव्यार्धविवर्तने द्वेष्ट पुष्ट गतयश्च पृष्ठे ॥ ६७ ॥
॥ टीका ॥
तस्माद्यत्नेन यत्नपूर्वकं शकुनं गवेषणीयं निरीक्ष्यमित्यर्थः ॥ ६४ ॥ वामेति ॥ शिवा कचिदेशे वामे प्रशस्ता क्वचिदक्षिणतः शुभेति करापिकाणां शब्दाः कचिदेशे दक्षिणतः कचिद्वामे वामभागे प्रशस्ताः तस्माल्लोकप्रसिद्धयापि शकुनं परीक्षणीयं निरीक्षणीयमिति करापिका महरीति लोके प्रसिद्धा ॥ ६५ ॥ सदा इति ॥ नगरप्रवेशे यो, 'जनमात्रशेषे क्रोशावशेषे ग्रामप्रवेशे तयोः प्रवेशे च कल्याणं श्रेयः वांछद्धिः पथिकः गीतहास्ये गानहसने परिवर्जनीये त्याज्ये इत्यर्थः कदा सर्वदा सर्वकालम् ॥ ६६ ॥ ॥ सव्यापसव्येति ॥ सव्या वामा दक्षिणतो या वामं याति अपसव्या दक्षिणा या वामतो दक्षिणं याति अभिमुखीति या संमुखमभ्येति पराङ्मुखीति अग्रत उत्थाय पराङ्मुखं याति ऊर्ध्वमिति या अग्रतः उर्द्ध गच्छति अधोमुखीति या उपरिष्टादधो मुखी पतति सव्यापसव्यार्धविवर्त्तने द्वे इति सव्यं वाममपसव्यं दक्षिणं तयोरर्धमर्ध
1
॥ भाषा ॥
रुपकूं ठगलेँ, तातें यत्नपूर्वक शकुन देखबेकूं योग्य है ॥ ६४ ॥ वामेति ॥ शिवाकोई देशमें बाँई शुभ है, और कोई देशमें दाहनी शुभ है, और करापिकानको शब्द कहूं वामें शुभहै, कहूं दाहिने शुभहै, ताते लोकमें जो प्रसिद्ध शकुन हैं ते भी देखबेकूं योग्य हैं करापिका नाम महरि या नाम करके प्रसिद्ध है ॥ ६५ ॥ सदाध्वगैरिति ॥ चार 1. कोश नगर रहै, अथवा एक कोश ग्राम बाकी रहे, तब इन दोनोंनके प्रवेशमें अपने कल्याणकी वांछा करै, उन पुरुषनकूं गीत बाजे हास्य ये वर्जनो योग्य है ॥ ६६ ॥ सव्यापसव्येति ॥ सव्या नाम वामा दक्षिण भागते वांये माहूंकूं जाय, और अपसव्या नाम दक्षिणा
Aho! Shrutgyanam