________________
१६
हेमचन्द्रव्याकरणे नुवो धयादिः || ९७३ ॥
णूत् स्तवने इत्यस्माद्धकारादिस्थकारादिव किदस् प्रत्ययो भवति || नूधा नूथाश्व सूतमागधी || धादौ गुणमिच्छन्त्येके । नोधा ऋषिऋत्विक् ॥ ९७३ ॥ वयःपयःपुरोरेतोभ्यो धागः || ९९४ ||
एभ्यः परात् डुधांग्क् धारणे च । इत्यस्मात्किदस् प्रत्ययो भवति ॥ त्रयोधा युवा चन्द्रः प्राणी च ॥ पयोधाः पर्जन्यः || पुरोधाः पुरोहित उपाध्यायश्व || रेतोधा जनकः || ९७४ ॥
नत्र ईहेरे धौ च ॥ ९७५ ॥
पूर्वात् हि चेष्टायाम् । इत्यस्मादस् प्रत्ययों [ भव ] त्यस्य च एह एध इत्यादेशौ भवतः || अनेहा: काल इन्द्रश्वन्द्रश्च || अनेधा अनिर्वायुश्व || ९७५ ॥ विहायस् सुमनस्पुरुदंशस्पुरूरवोङ्गिरसः || ९७६ ॥
एतेस्प्रत्ययान्ता निपात्यन्ते || विपूर्वाज्जहातेर्जिहीतेर्वा योन्तश्च । विजहातीति विहाय भाकाशम् । विजिहीत इति विहायाः पक्षी || सुपूर्वान्माने स्वश्च मुटु मानयन्ति मन्यन्ते वा । मुमनसः पुष्पाणि ॥ पुरुं दशतीति पुरुदंशा इन्द्रः || पुरुपूर्वाद्रीतेर्दीर्घश्व पुरु रौति । पुरूरवा राजा यमुर्वशी चकमे || भङ्गेरिरोन्तश्र । अङ्गतीति । अङ्गिरा ऋषिः || ९७६ ||
[९७३-९८०
पातेर्जस्थसौ ॥ ९७७ ॥
यांक् रक्षणे । इत्यस्माज्जस् थस् इत्येतौ प्रत्ययौ भवतः || पाजो बलम् || पाथ उदकमन्त्रं च ॥ ९७७ ॥
सुरीभ्यां तम् ॥ ९७८ ॥
आभ्यां तस् प्रत्ययो भवति || खुं गतौ । स्रोतो निर्झरणम् | सुष्ठु स्रवतीति सुस्रोनाः || रींश् गतिरेषणयोः | रेतः शुक्रम् ॥ ९७८ ॥
अतणिभ्यां नस् ॥ ९७९ ॥
आभ्यां नस् प्रत्ययो भवति || ऋक् गतौ । अर्णो जलम् ॥ इण्क् गतौ ।
९७९ ।।
एन: पापमपराधश्व
रिवेः क् च ॥ ९८० ॥
रिपी विरेचने | इत्यस्मान्नस् प्रत्ययो [भव त्यस्य च मकारान्नादेशों मवति || रेक्णो धनं पापं च ॥ ९८० ॥
Aho ! Shrutagyanam