________________
$&
हेमचन्द्रव्याकरणे
व्येग एदोतौ च वा ॥ ९९४ ॥
ठर्येग् संवरणे | इत्यस्मान्मन्प्रत्ययो [ भव ] त्येदोतौ चान्तादेशौ वा भवतः || व्येम वस्त्रम् | व्येमा संसारः कुविन्दभाण्डं च || व्योम नभः | पक्षे | व्याम न्यग्रोधाख्यं प्रमाणम् ॥ ९९४ ॥
[ ९१४-९१९
स्यतेरी च वा ॥ ९९५ ॥
षच् अन्तकर्मणि | इत्यस्मान्मन्प्रत्ययो [भवति ] ईकारश्चान्तादेशो वा भवति || सीमा आघाटः । पक्षे । साम प्रियवचनं वामदेव्यादि च ।। ९९५ ।। सात्मन्नात्मन्वे मन्रोम क्लोमंल्ललामनामन्पाप्मन्पक्ष्मन्यक्ष्मन्निति ॥ ९९६ ॥
एते मन्प्रत्ययान्ता निपात्यन्ते || स्यतेस्तोन्तश्च | सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतमन्तकर्म च || अतेर्दीर्घश्व | आत्मा जीवः || वेग आत्वाभावञ्च | वेम तन्तुवा योपकरणम् || रुहेर्लुक् च | रोम तनूरुहम् | लत्वे | लोम तदेव || क्लमेरोच्च | क्लोम शरीरान्तरवयवः || लातेर्द्वित्वं च । ललाम भूषणादि || नमेरा च । नाम संज्ञा कीर्तिश्व || पातयतेः प् च । पाप्मा पापं रक्षश्च ॥ पञ्चेः कः षोन्तो नलोपश्च । पक्ष्म अक्ष्यादिलोम || यस्यतेर्यक्षिगो वा । यक्ष्मा रोगः || इतिकरणात् तोक्मशुष्मा - दयो भवन्ति ।। ९९६ ॥
जनियामिमन् || ९१७ ॥
आभ्यामिमन्प्रत्ययो भवति || हंग् हरणे | हरिमा पापविशेषो मृत्युर्वायुश्च || जनैचि प्रादुर्भावे | जनिमा धर्मविशेषः संसारश्च ।। ९१७ ।। सृहभृधृस्तृसूभ्य ईमन् ॥ ९१८ ||
एभ्य ईमन्प्रत्ययो भवति ॥ सृ गतौ | सरीमा कालः || हंग् हरणे | हरीमा मातरिश्वा || डुडुभृंगक् पोषणे च । भरीमा क्षमी राजा कुटुम्बं च || धृग् धारणे | धरीमा धर्मः || स्तृग्श् आच्छादने | स्तरीमा प्राचारः || षूत् प्रेरणे | सवीमा गर्भः प्रसूति ।। ९९८ ॥
गमेरिन् || ९१९ ॥
गनुं गतौ । इत्यस्मादिन्प्रत्ययो भवति || गमिष्यतीति गमी जिगमिषुः ॥ ९९९ ॥
Aho ! Shrutagyanam