________________
८१६-८२९] - उणादिगण विवृतिः।
श्यः शीत च ।। ८१६ ॥ ___ इयड् गतौ । इत्यस्मादारुः प्रत्ययो भव त्यस्य च शीत इत्यादेशो भवति ।। शीतारुः शीतासहः । लत्वे | शीतालुः ॥ ८१६ ॥
तुम्बेरुरुः ॥ ८१७ ॥ तुबु अर्दने | इत्यस्मादुरुः प्रत्ययो भवति ॥ तुम्बुरुर्गन्धर्वो गन्धद्रव्यं च ॥ ८१७ ।।
कन्देः कुन्द च ॥ ८१८ ।। कदु रोदनाहानयोः । इत्यस्मादुरुः प्रत्ययो भवत्यस्य च कुन्द इत्यादेशो भवति ॥ कुन्दुरुः सल्लकीनिर्यासः ।। ८१८॥
चमेरूरुः॥ ८१९ ॥ चमू अदने । इत्यस्मादूरुः प्रत्ययो भवति ॥ चमूरुश्वित्रकः ॥ ८१९ ।।
शीडो लुः ॥ ८२० ॥ शीड्क् स्वमे । इत्यस्माल्लुः प्रत्ययो भवति ॥ शेलुः श्लेष्मातकः ॥८२०॥
पीडः कित् ॥ ८२१ ॥ पीड्च् पाने । इत्यस्मास्किल्लुः प्रत्ययो भवति ।। पीलुर्हस्ती वृक्षव!|८२१॥
लस्जीयिशलेरालुः ॥ ८२२ ॥ एभ्य आलुः प्रत्ययो भवति || ओलस्नैति वीडे | लज्जालुर्लज्जनशीलः ।। ईर्ण्य ईर्ष्यार्थः । ईर्ष्यालुरीऱ्यांशीलः ॥ शल गतौ । शलालुवृक्षावयवः ।।८२२॥
आपोप् च ॥ ८२३ ।। आफुट् व्याप्तौ । इत्यस्मादालुः प्रत्ययो भव]त्यस्य च अप् इत्यादेशो भवति ॥ अपालुर्वायुः ॥ ८२३ ।।
गृहलुगुग्गुलुकमण्डलवः ॥ ८२४ ॥ एत आलुप्रत्ययान्ता निपात्यन्ते ।। गूहतेईस्वश्च प्रत्ययादेः । गृहलुक्रषिः।। गुंड् शब्दे । अस्यादेर्गुग्गुलॊपश्च प्रत्ययादेः । गुग्गुलुर्वृक्षविशेषोश्वश्च ॥ कम्पूर्वादनिते?न्तो हस्वश्च प्रत्ययादेः । कमण्डलुरमत्रम् ।। ८२४ ॥
प्रः शुः ।। ८२५॥ पृश् पालनपूरणयोः । इत्यस्मात् शुः प्रत्ययो भवति ।। पशुर्वसिंज्ञं वक्रास्थि ।। ८२५ ॥
Aho! Shrutagyanam