________________
१२८ हेमचन्द्रव्याकरणे
[७६२-७७१ अव्यतिगृभ्योदुः ॥ ७६२ ॥ एभ्योदुः प्रत्ययो भवति ॥ अव रक्षणादौ । अवटुः कृकाटिका || क् गतौ । अरटुर्वृक्षः ।। गत् निगरणे । गरदुर्देशविशेषः पक्ष्यजगरश्च ।। ७६२ ॥
शलेराटुः ।। ७६३ ।। शल गतौ । इत्यस्मादाटुः प्रत्ययो भवति ।। शलाटुः कोमलं फलम् ||७६३॥
अध्यवरिष्टुः ।। ७६४ ॥ आभ्यामिछुः प्रत्ययो भवति ॥ अञ्जौप् व्यक्क्यादौ । अनिष्ठुर्भानुरनिश्च ॥ भव रक्षणादौ । भविष्ठुरश्वो होता च ॥ ७६४ ।।
तनिमनिकणिभ्यो डुः ॥ ७६५ ॥ एभ्यो दुः प्रत्ययो भवति ॥ तनूयी विस्तारे । तण्डुः प्रथमः ।। मनिच् ज्ञाने | मण्डुक्रषिः ॥ कण शब्दे । कण्डुर्वेदनाविशेषः ॥ ७६५ ॥
पनेर्दीर्घश्च ॥ ७६६ ॥ पनि स्तुतौ । इत्यस्माहुः प्रत्ययो [ भवति ] दीर्घच भवति || पाण्डुर्वर्णः क्षत्रियश्च ॥ ७६६ ॥
पलिमृभ्यामाण्डुकण्डुकौ ॥ ७६७ ।। ____ भाभ्यां यथासंख्यमाण्डु कण्डुक इति प्रत्ययौ भवतः ॥ पल गती । पलाण्डुलशुनभेदः ॥ मृत् माणत्यागे । मृकण्डुक ऋषिः ॥ ७६७ ॥
अजिस्थावृरीभ्यो णुः ॥ ७६८॥ एभ्यो णुः प्रत्ययो भवति ॥ अज क्षेपणे च | वेणुर्वशः ॥ टो गतिनिवृत्ती स्थाणुः शिव ऊर्ध्व च दारु ॥ वृग्ट् वरणे । वर्णर्नदो जनपदश्च ॥ रीश् गतिरेषणयोः । रेणुधूलिः ॥ ७६८ ॥
विषेः कित् ।। ७६९ ॥ विषूकी व्याप्तौ । इत्यस्मात्किण्णुः प्रत्ययो भवति ।। विष्णुहरिः ॥७६९।।
- क्षिपेरणुक् ।। ७७०॥ क्षिपीत् प्रेरणे । हत्यस्मारिकदणुः प्रत्ययो भवति ॥ क्षिपणुः समीरणो विद्युञ्च ।। ७७० ।।
अञ्जरिष्णुः ।। ७७१ ॥ अझोप व्यक्त्यादौ । इत्यस्मास्किदिष्णुः प्रत्ययो भवति ॥ अनिष्णु - तम् ॥ ७७१ ॥
Aho 1 Shrutagyanam