________________
१२६ हेमचन्द्रव्याकरणे
[७४७-७५३ अध्वरं यातीति पूर्वपदान्तलोपे | अध्वर्यु:त्विक् ॥ आदिग्रहणात् चरन्याति । चरण्युर्वायुः ॥ अभिपूर्वस्याभातेः । अभीशू रश्मिः ॥ ७४६ ॥
शः सन्वच्च ॥ ७४७ ॥ शोंच तक्षणे | इत्यस्माडिदुःप्रत्ययो [ भवति ] स च सन्धत् सनीवास्मिन्द्रित्वं पूर्वस्य च इत्वं भवति || शिशु लः ।। ७४७ ॥
तनेर्डउः ॥ ७४८ ॥ तनूयी विस्तारे । इत्यस्माड्डिदुः प्रत्ययो [ भवति ] स च सन्वद्भवति ॥ तितउः परिवपनम् ॥ ७४८ ॥
कैशीशमिरमिभ्यः कुः ॥ ७४९ ॥ एभ्यः कुः प्रत्ययो भवति ॥ के शब्दे | काकुः स्वरविशेषः ॥ शीडक स्वमे । शेकुरुद्भिविशेषः । शमूच् उपशमे । शङ्कः कीलको बाणः शूलमायुधं चिह्न छलकश्च ॥ रमि क्रीडायाम् । रकम॒गः ॥ ७४९ ॥
ह्रियः किद्रो लश्च वा ॥ ७५० ॥ हीक लज्जायाम् । इत्यस्मास्किल्कुः प्रत्ययो [भवति रेफस्य च लकारो वा भवति ॥ हीकु कुश्च पु जतुनी लज्जावांश्च ॥ हीकुर्वनमार्जारः ॥ ७५०॥
किरः ष च ॥ ७५१ ॥ कृत् विक्षेपे । इत्यस्मारिकत्कुः प्रत्ययो [ भवति ] षकारधान्तादेशो भवनि । किष्कुश्छायामानद्रव्यम् ॥ ७९१॥
चटिकठिपर्दिभ्य आकुः ॥ ७५२ ॥ एभ्य आकुः प्रत्ययो भवति || चटण भेदे | चटाकुषिः शकुनिश्च ।। कठ कृच्छ्रजीवने | कठाकुः कुटुम्बपोषकः ।। पार्द कुत्सिते शब्दे | पर्दाकुर्भको वृधिकोजगरश्च ।। ७५२॥
सिविकुटिकुठिकुकुषिकृषिभ्यः कित् ।। ७५३ ॥
एभ्यः किदाकुः प्रत्ययो भवति । षिवूच् उतौ । सिवाकुर्कषिः ॥ कुटत् कौटिल्ये | कुटाकुर्विटपः ॥ कुठिः सौत्रः । कुकुः श्वभ्रः ॥ कुंड् शब्दे । कुवाकुः पक्षी ।। कुषश् निष्कर्षे । कुषाकुर्मूषिकोमिः परोपतापी च ॥ कृषीत् विलेखने । कृषाकुः कृषीवलः ।। ७५३ ॥
Aho 1 Shrutagyanam